रामचरितम् /417
This page has not been fully proofread.
परिशिष्टम् २ ]
चत्वारिंशः सर्गः ।
सन्तु सुन्दरि मनोभवभावाः किं वृथैव विदधासि विलासान् ।
क्वापि निर्वृतिमुपैति न चेतो रामचापचकितं चपलाक्षि ॥ ३९ ॥
पुष्पकं विविधविस्तृतपुष्पं नैव केलिसदनञ्च सुखाय ।
भोगिभोगसदृशा मम भोगा राममेत्र पुरतोऽद्य निरीक्षे ॥ ४० ॥
न्यक्कृतानि च वचांसि गुरूणां पुण्यधीर्यदनुजोऽपि निरस्तः ।
यज्जगन्ति मथितान्यभिमानात्तत्फलं प्रियतमेऽनुभवामि ॥ ४१ ॥
भ्रातृमित्रसुतबन्धुविनाशादप्यदस्तुदति मामतिमात्रम् ।
सोऽनुजो यदनिशं हितवादी मानितो नहि मया मयपुत्रि ॥ ४२ ॥
हा विभीषण न मे कथमेकं सोढवानसि गुरोरविवेकम् ।
यातु यातु रसना शतधा सा त्वं यया कटुवचोभिरपास्तः ॥ ४३ ॥
रामरोपविधुरः शरणार्थी यामि तस्य यदि विश्रवसोऽङ्कम् ।
साम्प्रतं तदवधीरितपूर्वो लज्जयिष्यति स मामुपहासैः ॥ ४४ ॥
क व्रजामि मम धीरतिमूढा शाधि सुन्दरि करोमि किमद्य ।
कोऽपि मां न परिरक्षितुमी शस्तं विहाय गिरिजापतिमकम् ॥ ४५ ॥
किं ब्रवीमि कृपणोचितमेतद्रावणोऽस्मि विजिताखिलविश्वः ।
साऽस्ति होममतिरीश्वरदत्ता येन मे करगतैव जयश्रीः ॥ ४६ ॥
इत्यदीर्य महिपी कुशपाणिः स्नानपूतवपुरीश्वरमन्त्रः ।
संजुहाव विधिवद्विजयार्थी यातुधानपतिरग्निपु हव्यम् ॥ ४७ ॥
चारुत्रोधितविभीषणवाक्यैः ( क्यः ) तत्क्षणं रविसुतोऽङ्गदमुख्यान् ।
तस्य होमविधिनाशनहेतोरादिदेश दश वानरवीरान् ॥ ४८ ॥
ते मिथः कथितदोरभिमान स्तुप दुर्गमतीत्य ।
होमधामनि गता यमिनं तं वीक्ष्य विस्मयमनल्पमवापुः ॥ ४९ ॥
तन्नितान्तपरुषाद्भुतत्रायैर्नोदतिष्ठपहाय स होमम् ।
प्राकृतप्लवगबालकलीला तेन तेषु विदधे त्व (भि)मानात् ॥ ५० ॥
तत्र ते मयसुतामथ नीत्वा गाढमाचकृपुरुल्लिलिखुश्च ।
तामवेक्ष्य कृपणं विलपन्तीमुञ्झिता हुतिविधिः स उदस्थात् ॥ ५१ ॥
३८५