This page has not been fully proofread.

૧૮૪
 
रावणवधवर्णनो नाम
 
वक्ष्यिसे वदास किं न पुरस्तादार्तमग्रजममुं विलपन्तम् ।
मोहमीलितविलोचनपद्मं मञ्जुलं वदनमुन्नमयैतत् ॥ २६ ॥
 
[ रामचरितस्य
 
अङ्कगस्तव कृतो वनयाते बाष्पगद्गदगिराऽस्मि जनन्या ।
वत्स मां परिसरेऽरिनगर्या हा विहाय कथमद्य गतोऽसि ॥ २७ ॥
 
तादृश: सहचरस्तव राम प्रोज्झितः स भवता कथमेकः ।
आर्ययेति करुणं वद पृष्टः का भविष्यति मुखे मम वाणी ॥ २८ ॥
जीवितं मदनुजस्य गृहीत्वा नष्टवान्प्रसभमन्तकचौरः ।
आदिशाशु रविपुत्र हरींस्तन्निग्रहाय च तदानयनाय ॥ २९ ॥
 
अङ्गद प्रहिणु वानरवीरान् यान्त्वमी स्वविषयेषु यथेच्छम् ।
जीवितेऽपि हृदयं निरपेक्षं किं जयेन जनकात्मजया किम् ॥ ३० ॥
 
आततायिनमरातिमहत्वा नाभिषिच्य च विभीषणमेनम् ।
सत्यसन्ध समरे वद कस्मादादृताऽद्य भवता चिरनिद्रा ॥ ३१ ॥
 
त्वद्भुजौ मनसिकृत्य मयाऽसावाहतोऽतिविषमो रणभारः ।
एतयोस्समुचिता चिरनिद्रा साम्प्रतं किमसमाप्य विपक्षम् ॥ ३२ ॥
मुक्तकण्ठमतिशोकरयार्तो धैर्यमौज्ज्य (?) विलपन् रघुनाथ: ।
सौषधीकगिरिशृङ्गकराग्रं वीरमैक्षत पुरो हनुमन्तम् ॥ ३३ ॥ '
शक्तिशल्य मपनीय सुषेणस्तत्समाहृतवरौषधियोगात् ।
लक्ष्मणस्य च सचेतनभावं स्वप्नवृत्तिसममाशु चकार ॥ ३४ ॥
 
तत्क्षणं वनसदां जयघोषः कोऽपि स प्रतिदिशं विजजृम्भे ।
येन यातुपतिविंशतिनेत्री चिन्तयाऽजान विनिश्चलतारा ।॥ ३५ ॥
क्रुद्धकेसरिकठोर कराग्रक्रान्तकुञ्जर इवोज्झितदर्पः ।
निःश्वसन्नतितरां स जुघूर्णे तार्क्ष्यपक्षतिभयादिव सर्पः ॥ ३६ ॥
केलिवेश्मसु विनोदयुतेषु प्राप राक्षसपतिर्न विनोदम् ।
वीरमेकमपि राममनेकं पश्यति स्म पुरतः प्रहरन्तम् ॥ ३७ ॥
मा मुधा क्षिप मृगाक्षि कटाक्षान् स्निग्धमुग्ध हसितैरलमेतैः ।
विश्वविश्वमपि पश्यति चित्तं शत्रुपत्रिमयमेव ममाद्य ॥ ३८ ॥