This page has not been fully proofread.

परिशिष्टम् २ ]
 
चत्वारिंशः सर्गः
 
कांश्चिदक्षिपदपान्निधिनीरे कानपि क्षितितलेन ममर्द ।
निष्पिपेष परिरभ्य च कांश्चिद्वक्षसा स तरसा हरिवीरान् ॥ १३ ॥
पार्श्वयोर्न पुरतोऽथ न पश्चात्स्थातुमक्षमतया युधि तस्य ।
दूरगाः श्रुतधनुर्गुणनादैः सेदुरुग्रमहसोऽपि कपीन्द्राः ॥ १४ ॥
तेन रोषरभसेन जिघांसावेशवश्यहृदयेन मुहूर्तात् ।
सङ्गराजिरमकारि विनाशत्रासविद्रुतहरीन्द्रदरिद्रम् ॥ १५ ॥
विद्रवद्वलमवेक्ष्य कपीनां तनिषेद्धुमनुयोज्य तदीशम् ।
द्यां दिशश्च पिदधन् शरजालैर्लक्ष्मणो रणरसेन तमाप ॥ १६ ॥
 
एष शक्रजयिनो युधि हन्ता निश्चितं मम रिपोरसवश्च ।
इत्यवेत्य स विरिञ्चिवितीर्णी लक्ष्मणस्य हृदि शक्तिममुञ्चत् ॥ १७ ॥
 
शक्तिभिन्नहृदयो निपपात क्ष्मातले रघुपतेरनुजन्मा ।
स्वःसदां गगनवर्त्मनि हाहेत्युच्चचार करुणध्वनिरुच्चैः ॥ १८ ॥
शक्तिभिर्विंटपिभिर्गिरिकूटैस्तं निजघ्नुरभितो हरिवीराः ।
तस्य वज्रवपुषो न पुनस्तै रोममात्रमपि भेदमवाप ॥ १९ ॥
राघवोऽनुजानपातसमुत्थं शोकवेगमविचिन्त्य कथञ्चित् ।
दुर्दिनं किमपि वैरिणि वीरो बाणसंहतिमयं विततान ॥ २० ॥
 
शत्रुसान्द्रशरसंहतिसिन्धुं तं मनागपि तरीतुमशक्तः ।
अप्यनल्परणखेलनखिन्नः स्वां पुरीं प्रतिजगाम दशास्यः ॥ २१ ॥
 
नेतुमौषधवरं हिमशैलप्रस्थसंस्थमथ वीक्ष्य तमित्थम् ।
मारुतिः श्वशुरबोधितसौरिप्रेरितो दिशमगच्छदुदीचीम् ॥ २२ ॥
 
यच्छयानमनुजं रणभूमौ वीक्ष्य तस्य हृदयं न विदद्रे ।
तर्कयामि तदभूत्परमेकं कारणं परमपूरुषधाम ॥ २३ ॥
तं निधाय गतचेतनमङ्के भ्रातरं रघुपतिः क्षितिपीठात् ।
अश्रुपूरपरिपूरितनेत्रो भूरि शोकविकलो विललाप ॥ २४ ॥
 
वत्स यच्छ गुरुवत्सल वाचं त्वं ममाशयशयार्थविधाता ।
अद्य ते मयि पराङ्मुखवृत्तिः कथ्यतां कथमभूस्त्वमकस्मात् (१) ॥ २५ ॥