This page has not been fully proofread.

३८२
 
रावणवधवर्णनो नाम
 
चत्वारिंशः सर्गः ।
 
[ रामचरितस्य
 
शक्रवैरिणि गते शलभत्वं लक्ष्मणौजसि महोदरवीरः ।
आदरादभिदधे दशकण्ठे सङ्गरोत्कलिकयाऽऽकुलितं स्वम् ॥ १ ॥
 
शक्तिपट्टिशगदाङ्कुःशहस्तैः स्यन्दनाश्वमयवारणयानैः ।
सोऽनुगैस्सह निदेशमवाप्य स्वामिनः समरभूमिमगच्छत् ॥ २ ॥
उद्धृतोद्धरधुरैहरवीरैरदद्विविदमैन्दन लायैः ।
 
तत्र मौलरजनीचरयोधाः सङ्गिसङ्गररसैः समगच्छन् ॥ ३ ॥
मेघनीलवपुरायतदन्तो मत्तवारण इव प्रतिगर्जन् ।
सोsपि पर्वतशयेन हरीणां नायकेन रुरुधे रुधिराशी ॥ ४ ॥
 
बञ्चनाय रणशृङ्खलचारीरीतिभिस्तदुभयोरजनिष्ट ।
बाहुयुद्धमतिदारुणमुच्चैः शस्त्रशैलशरचापगतेन ॥ ५॥
 
निष्ठुरं हृदि निपात्य स मुष्टिं चेतनां कपिपतेरपनिन्ये ।
पिष्टवांश्च विधिलम्भितसंज्ञो यातुधानमुरसा तरसा सः ॥ ६ ॥
घ्राणकर्णनयनाननरन्धैरुद्वमन् रुधिरमाप स नाशम् ।
पारिजातकुसुमानि किरद्भिस्तुष्टुवे कपिर: सुरसाः ॥ ७ ॥
तद्विनाशमवगम्य समीकाद्गुप्तराक्षसमुखैर्देशकण्ठः ।
तत्प्रियत्वरिपुमत्सरभावाद्दुःखरोषपरमावधिमाप ॥ ८ ॥
निर्ययावथ विमृश्य युयुत्साकेलिकौतुकसमुत्सुकबाहुः ।
सोऽधिरुह्य रथमुत्तरलङ्कगगोपुरेण सह सर्वचमूभिः ॥ ९ ॥
 
उत्सृजन्तमभितः शरजालं रावणं भ्रुकुटिभीषणभालम् ।
अध्यवेक्षितुमहो युधि नालं वानरास्तमभवन्निव कालम् ॥ १० ॥
उत्कटभ्रुकुटिकोटिविटङ्कन्स्पष्टसङ्कटललाटतटान्तः ।
उच्चलन विकटनिष्ठुरमुष्टीन् कोटिशः कपिभटान् स्म पिनष्टि ॥ ११ ॥
लीलया नलिननालदलानां निर्ममन्थ परितः प्लवगेन्द्रान् ।
सञ्चरन् समरभूमिसरस्यामुन्मदः स गजराज इवोच्चैः ॥ १२ ॥