This page has not been fully proofread.

परिशिष्टम् २ ]
 
एकोनचत्वारिंशः सर्गः ।
 
एतस्य जाता रघुनन्दनेन मूलं महावैरमहीरुहस्य ।
अक्षादिरक्षःकुलकालरात्रेर्दोषैकगेहं भवती प्रदोषः ॥ ९१ ॥
 
रौद्रं शिशुत्वेऽपि बभञ्ज चापं यो हैहयारिं तरसा जिगाय ।
एकः खरादीन् शतशो जघान पौलस्त्य किं ते वितथे न ( न तथापि ) वैरम् (१) ९२
 
त्वयाऽनुभूतं बलमिन्द्रस्नोः कपेर्न तस्मिन्निहते भवांचेत् ।
रामेण वैराद्विरराम कस्मादम्भोधिबन्धे न महाद्भुतेऽपि ॥ ९३ ॥
 
अखर्वगर्वादवमानिताश्चेत्त्वया पुलस्त्यप्रमुखा ह्यवाचः ।
मज्जन्तमज्ञानमहाम्बुराशौ निजं निजेनैव न किं निषिद्धः ॥ ९४ ॥
अद्यापि संविन्मयलोचनेन सम्यङ्निरीक्ष्यान्तमुपैहि रामम् ।
प्रसीद शेषानपि पाहि बन्धून् ममात्मजांश्चापि विभूषणानि ॥ ९५ ॥
अत्यर्थ प्रादुरासन् प्रसभमरतयो नैकरक्षःक्षयाद्या-
स्तेनात्यर्थैविनोदैर्वितथविहसितैर्गोपयाञ्चक्रिरे ताः ।
तस्य।शेषप्रणाशप्रगुणमलिनताधूमराजिः समन्ता-
दिन्द्रारातिप्रणाशप्रभवमकथयत्किंतु शोकाग्निमन्तः ॥ ९६ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये एकोनचत्वारिंशः सर्गः ।
 
३८१
 
न मधुरं मधु फल्गु च फाणितं रसपरा न सिताऽपि सुधा मुधा ।
अधर एव नवप्रमदाधरो लसति भीमकवेः कवितारसे ॥