रामचरितम् /412
This page has not been fully proofread.
३८०
इन्द्रजिन्निधनवर्णनो नाम
वैधव्यविध्वस्तवधूविलासं विमुक्तवाद्यवतवेणुवीणम् ।
वियुक्तवैतालिकवर्गदाहं (?) विस्तीणविश्वव्यसनावतारम् ॥ ७८ ॥
रामचरितस्य ]
(१) ॥ ७९ ॥
सर्वत्र वक्रान्तरचञ्चदग्निज्वालावलीघोरशिवाविरावम् ।
सर्वत्र मत्तधरणानुपविकडूनलकीर्णाखिलराजमार्गम्
निरञ्जनाक्षिस्रवदश्रुबिन्दुमुक्ताफलालिङ्गिघनस्तनीभिः
परिस्फुरत्कङ्कणराजिरिक्तकराग्रसुप्ताननपङ्कजाभिः ॥
विष्वग्विलोलालकवल्लरीभिर्घृतैकलावण्यविभूषणाभिः
अगाधदुःखाम्बुधिमध्यमग्नमनोभिरध्यासितमङ्गनाभिः ॥ ८१ ॥
।
८० ॥
।
।
उत्पातवातान्वितवानघात्तं(?)सञ्जातवातायनजालपातम्
कटुक्कणत्काककदम्बकेन समन्ततः संश्रितसौधशृङ्गम् ॥ ८२ ॥
तत्पूर्वजाताद्भुतवैशसेन लङ्कापुरं संश्रितशोकलोकम् ।
अगण्यकारुण्यरसाम्बुराशौ निमज्जयामास न कस्य चेतः ॥ ८३ ॥ कुलकम् ॥
इत्यं कथञ्चिद्विनिरुद्धवाष्पपूरैर्जनानां पुरसुन्दरीणां (१) ।
तदा परं शुश्रुविरे समन्तात् कारुण्यगर्भाणि वचांसि तत्र ॥ ८४ ॥
भ्राता मदीयो निहतः सुतो मे सहे न चाहं प्रियशोकदाहम् ।
ममास्ति शेषः शिशुरेक एव हताऽस्मि हा हाऽस्तमितं कुलं मे ॥ ८५ ॥
हा तात हा बान्धव हा तनूज प्राणेश हा हा बत बन्धुवर्गाः ।
किं कारणं प्रेमपरा परास्ता समेत्य सर्वैरहमेककालम् ॥ ८६ ॥
यद्वीक्षणक्षोभकरीक्षमाणां मामक्षिणोदक्षिनिमेषमुद्रा ।
।
प्रियस्य तस्यापि चिरप्रवासे जीवामि पापा प्रियजीविताऽस्मि ॥ ८७ ॥
रामः श्रुतो मन्मथमुग्धमूर्तिर्दुष्टासि दौर्भाग्यनिकेतने त्वम्
हा तेन ते शूर्पणखे मनोभूकेलीरसेच्छा कथमाविरासीत् ॥ ८८ ॥
गर्भस्थितैवासि न किं विलीना जाता कथं चेदथ जीविता किम् ।
येनाधुना रावणराजधान्याः संवर्तहेतुर्भवती बभूव ॥ ८९ ॥
कृतापराधाऽपि रघूद्वहेन न तेन कारुण्यवता हताऽसि ।
अशेषलङ्कनपुरघस्मरेण हुताशनेनापि कथं न दग्धा ॥ ९० ॥