This page has not been fully proofread.

परिशिष्टम् २ ]
 
एकोनचत्वारिंशः सर्गः ।
 
अथान्तरिक्षात्सुरलोकमुक्तप्रभूतमालाञ्चितकण्ठपीठः ।
सौमित्रिराजिश्रमवारिविन्दुसन्दोहमुक्ताफलभूषिताङ्गः
 
॥ ६५ ॥
 
वल्गद्भिरुच्चैः प्रमदप्रकर्षाद्वलीमुखेन्द्रैरनुगम्यमानः ।
संस्तूयमानः सुरचारणौघैत्रपानमन्मौलिरियाय रामम् ॥ ६६ ॥ युग्मम् ॥
गाढमहारत्रणजर्जराङ्गन्मुद्धृत्य दूरादवनौ लुठन्तम् ।
 
तं वक्षसा स्नेहभराभिरामो रामोऽग्रहीद्वाष्पपरिप्लुताक्षः ॥ ६७ ॥
न चन्दनैनेंन्दुकरैः प्रशान्तो न पद्मिनी पल्लवमारुतैर्यः ।
क्षणं स सीताविरहाग्नितापस्तदङ्ग सङ्गेन शशाम तस्य ॥ ६८ ॥
जयावदानं युधि लक्ष्मणस्य तस्मै तदानन्दपराः शशंसुः ।
वलीमुखेन्द्रा जयनादभङ्गीसङ्गीतकैस्तत्र ववलगुरन्ये ॥ ६९ ॥
कर्णाटवीदारुणदाववन्हिर्मनोविनोदार्णवकुम्भयोनिः ।
जया रवः कोऽपि कपीश्वराणामभूद्विसर्पन्दशकन्धरस्य ॥ ७० ॥
संशोषिते संयति मेघनादमहानदे लक्ष्मणभास्करेण ।
तदाश्रयैस्तत्पुरवासिलोकैरत्याकुलैमीनकुलायितं तैः ॥ ७१ ॥
प्रत्यङ्गणञ्च प्रतिमण्डपञ्च प्रत्यालयञ्च प्रतिचत्वरञ्च ।
विलुप्तसर्वान्यकथाविशेषं हाहेति सर्वत्र महाविरावम् ॥ ७२ ॥
प्रियप्रणाशोद्भवशोकदीर्णचक्षुः पुरन्ध्रीपृथुकार्तनादम् ।
 
३७९
 
विलापकोलाहलमूर्च्छनाभिरपास्तपाथोनिधिघोरघोषम् ॥ ७३ ॥
निश्वासधूमोमिंभिरङ्गनानां शीर्णाङ्गणाशोकनवप्रवालम् ।
विलोचनेभ्यः स्रवदश्रुपूरैः पुतालयप्रान्तविहारभूमि ॥ ७४ ॥
प्रत्यालयं शान्तिनिशान्तशंसिभेरीमृदङ्गानकशङ्खनादम्
निवृत्तनानाविधनुत्तभिन्नमूर्च्छामिलन्मङ्गलमञ्जगानम्
उत्तालशैवालजटालवापीजलस्खलद्वालमरालमालम् ।
लीलावतीलालनलाभलोभविनिश्वसत्केलिकुरङ्गशाबम्
अनल्पतुर्यत्रयनाद भङ्गीसङ्गीतकैरुज्झितरङ्गशालम् ।
दिनावसाने कुसुमापणांतर्विमुक्तसञ्चारविलासिलोकम् ॥ ७७ ॥
 

॥ ७५ ॥
 
॥ ७६ ॥