This page has not been fully proofread.

इन्द्रजिनिधनवर्णनो नाम
 
[ रामचरितस्थ
 
इयच्चिरं तिष्ठति विष्टपान्तकर्तापि रुद्रो न रणे पुरो मे ।
शस्त्राणि तान्येव स एव चाहमिहाद्य यातः कथमन्यथात्वम् ॥ ५२ ॥
धिक्कार्मुकं मे घिगिषूनिमस्तान् यैः सह्यते सम्प्रहरन् मनुष्यः ।
इतीन्द्रजिच्चेतास सम्प्रधार्य दिव्यास्त्र मोक्षेषु बभार बुद्धिम् ॥ ५३ ॥
ज्वलज्जगद्व्यापिशिखावलानामन्तर्गतो यस्य बभूव भानुः ।
स्फुरत्स्फुलिङ्गाकृतिरन्तरिक्षे सोऽमुञ्चदस्त्रं शिखिदैवतं तत् ॥ ५४ ॥
तदस्त्रजातस्य तदा समन्ताद्विस्तारिणीभिः शिखिनः शिखाभिः ।
ज्वलत्सु पुच्छेषु वलीमुखानां चकम्पिरे चेतसि सिद्धसङ्घाः ॥ ५५ ॥
 
सौमित्रिरभ्राजत पावकस्य ज्वालावलीभिः परिवेषिताङ्गः ।
करालनेत्रानलदीप्यमानो दाहक्षणे रुद्र इव स्मरस्य ॥ ५६ ॥
 
ऋतुक्रियारक्षणदक्षिणेन यत्कौशिकात्तेन मुनेरवाप्तम् ।
अमोघमस्त्रं मुमुचे तदत्रनिवारणं वारुणसंज्ञकं तत् ॥ ५७ ॥
 
तदा तदस्खा हुतवारिदालीकालीकृताशेपनभोषिभागः
धारावलीभिः पयसां समन्तान्निर्वापयामास हुताशनं सः ॥ ५८ ॥
 
यद्यत्सुरेन्द्रारिरमुञ्चदस्त्रं तत्तन्निजात्रेण वृथा स चक्रे ।
सौमित्रिणा निष्फलसर्वयत्नो वैलक्ष्यविच्छायवपुर्व्यलोकि ॥ ५९ ॥
 
अत्रान्तरे विस्फुरदुग्रतेजा जयेति देवैरभिनन्द्यमानः ।
शरं पुरेव त्रिपुरे पुरारिः स सन्दधे सायकमर्द्धचन्द्रम् ॥ ६० ॥
 
तमग्रजं चेतसि सन्निधाप्य सीतापदाम्भोजरजःकणांश्च ।
आकर्णमाकृष्य शरासनान्तं वीरस्तमस्मिन्विससर्ज बाणम् ॥ ६१ ॥
स्फुरच्छिखो व्योमनि सिद्धसदृष्टः क्षणं लक्ष्मणकङ्कपत्रः ।
अपातयत्तस्य शिरः क्षणार्द्धात्तच्छृङ्गमद्रेरिव वज्रपातः ॥ ६२ ॥
प्रकम्पयन् संहननातिभारात्साम्भोनिधिद्वीपवनाद्रिमुर्वीम् ।
आनन्दशोकप्रभवाश्रुपूरैः पपात सार्द्धं स सुरासुराणाम् ॥ ६३ ॥
रणाङ्गणे क्ष्मातलतूलतल्पे तस्मिन् प्रसुप्ते क्षयकालरात्रौ ।
परःशता वानरदीपकेषु रक्षःमवीराः शलभत्वमापुः ॥ ६४ ॥