रामचरितम् /41
This page has been fully proofread once and needs a second look.
गृहीतसाधुवर्त्माणि सद्यः सम्प्राप्य सम्पदम् ।
पतति स्खलितोऽतीवं[^१] प्रमत्तः प्रहते पाथ ॥ ९३ ॥
स वत्स विरलो जन्तुर्विपत्कालप्रतिश्रुतम् ।
सद्यः सम्पन्मदो[^२] यस्य न विलुम्पति चेतसि ॥ ९४ ॥
अस्तु[^३] साधुरसाधुर्वा न विचार्यः स मेऽधुना ।
वत्स नोत्सहते चेतस्तत्र दोग्धुमुपक्रियाम् ॥ ९५ ॥
असावनागतः श्रेयानागच्छन्वत्स वार्यताम् ।
प्रवेशयन्ति सुहृदं न धीराः स्वार्थसङ्कटे ॥ ९६ ॥
कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते ।
अविमृश्य कृतोऽस्माभिः स पुनः कृपणः पणः ॥ ९७ ॥
किं क्षिप्तमचलप्रान्तादन्तःसुप्तशिवाशतम् ।
निर्देश[^४]पुरुषेणेव कङ्कालं दुन्दुभेर्मया ॥ ९८ ॥
कस्यार्थस्य कृते विद्धाः सप्त सालास्तपस्विनः ।
स मा प्रत्येतु वैधेयः किं न साधितमन्यतः ॥ ९९ ॥
अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेत् ।
विशिखं वालिनि व्यग्रे सुग्रीवस्य पशो: कृते ॥ १०० ॥
न परित्यज्यते मार्गस्तावन्निर्वाच्यकर्दमः ।
यावत्पिहित[^५]कष्टार्यं[^६] कार्यायात्मा न दीयते ॥ १०१ ॥
इष्वैकया मया विद्धो बालिशेन वलीमुखः ।
अनुद्धारा: शरास्तेन रोपिता मयि वाङ्मयाः ॥ १०२ ॥
अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा ।
वत्स कालोचितं शाधि न रामः किञ्चिदीक्षते ॥ १०३ ॥
अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहम् ।
दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥ १०४ ॥
[^१] Bc. र्थी च ।
[^२] A. न्मषी ।
[^३] A. स्ति ।
[^४] B. वे. ।
[^५] C. स्यहित ।
[^६] A काष्ठाया ।