रामचरितम् /409
This page has not been fully proofread.
परिशिष्टम् २ ]
एकोनचत्वारिंशः सर्गः ।
उपासते यं सनकादयोऽपि पश्यन्ति यं चेतसि योगिनश्च ।
रे राक्षसानामुदितं क्षयाय परं पुमांसं तमवेहि रामम् ॥ ३९ ॥
तस्यानुजं लक्ष्मणमाजिभाजं म (न)त्वा भज त्वं यदि जीवितेच्छा ।
असंशयं नो रघुवंशजानां पतन्ति पादप्रणते पृषत्काः ॥ ४० ॥
नो चेदमुष्येषुपरम्पराभिर्विऌनमूर्द्धा भविता परासुः ।
त्वच्छोणितास्वादनितान्तलोला न कालजिह्वा सहते न (हि)कालम् ॥ ४१ ॥
सौमित्रिरिन्द्रारिमवेक्ष्य तद्गीर्बद्धक्रुधं रोपितरोपचापम् ।
बिभीषणं तत्क्षणमादरेण स्वविग्रहेणान्तरयाञ्चकार ॥ ४२ ॥
मावर्ततान्योन्यविमुक्तबाणपरम्पराच्छन्नवियद्वितानः ।
चेतञ्चमत्कारकरः सुराणां शक्रारिरामानुजयोर्महाजिः ॥ ४३ ॥
उभौ महोदग्रबलाभिमानौ नभस्स्थले पश्यति सिद्धसङ्गे ।
अशेषशस्त्रास्त्रविशारदौ तावयुध्यतां लक्ष्मणमेघनादौ ॥ ४४ ॥
एकत्र धातुर्वरलब्धमोजः सद्वैष्णवं धाम परं परेऽस्मिन् ।
जयैषिणोरेकतमं तयोस्तन्नातर्कि देवैरधिकं बलीयः ॥ ४५ ॥
विदार्य रक्षोधिपसूनुवक्षो वज्राकरक्ष्माधरभूकठोरम् ।
ययौ प्रियं ख्यातुमिवोरगेभ्यो रसातलं लक्ष्मणकङ्कपत्रः ॥ ४६ ॥
भीत्या श्रितानि त्रिदशैः पुरा यैः कुलाद्रिसानून्यपि भेदितानि ।
तैर्मेघनादस्य शरैः कथञ्चित्तच्छोणितास्वादरसोऽनुभूतः ॥ ४७ ॥
३७७
परिस्रवच्छोणितपङ्कदिग्धे वक्षस्थले राक्षसराजसूनोः ।
आपुङ्ख·मग्नेष्वपि तच्छरेषु मनागपि क्षाममभून धैर्यम् ॥ ४८ ॥
प्रत्यङ्गमिन्द्रारिशरावलीभिः परिक्षतस्यापि च लक्ष्मणस्य ।
निर्भसिताखण्डशरच्छशाङ्कग रेजे मुखश्रीर्मधुरैव तस्य ॥ ४९ ॥
अनेक रक्षःप्लवगणवीरैः प्रोत्साहिताभ्यां बलगर्विताभ्यां ।
इत्थं न संग्रामरसेन ताभ्यां त्रयं दिनानां गतमप्यवेदि ॥ ५० ॥
शश्राम जग्लौ विषसाद मम्लौ तयोर्महामत्सरयोर्न कोऽपि ।
विमुक्तशस्त्रप्रतिशस्त्रजालैः परस्परं शाहरतां पुनस्तौ ॥ ५१ ॥