This page has not been fully proofread.

३७६
 
इन्द्रजिनिधनवर्णनो नाम
 
अपि स्वयं स्वात्मजनायकस्य तस्यैव तन्वन्ननुजीविधर्मम् ।
सुरेन्द्रशत्रुं तरसा जिगीषो: समीरण : प्रष्ठचर: सुखोऽभूत् ॥ २६ ॥
 
छन्नान्तरिक्षक्षितिदिग्वितानां तामापतन्तीं पृतनां कपीनाम् ।
कुम्भंनिला(निकुंभिला)यामिकयातुधानाः पौलस्त्यपुत्राय समाशशंसुः ॥२७॥
तत्कालमुत्सृज्य कृतार्धहोमं स निर्ययौ रोषवशंवदात्मा ।
अग्रेसरं वानरवाहिर्नानां विभीषणं चाथ हसन्नवादीत् ॥ २८ ॥
 
भ्रातुस्तनूजः प्रणमत्ययं त्वां दिष्टयाऽद्य दृष्टोऽसि चिरात्पितृव्य ।
अस्मद्वधार्थ सह मानवेन भवान्कपीनां बलमानिनाय ॥ २९ ॥
धातुः कुलेऽभूर्दशकन्धरस्य वीराधिवीरस्य च सोदरोऽसि ।
मुक्त्वा तमत्रावसरे परेषां किं कारणं किङ्करतां करोषि ॥ ३० ॥
यस्य प्रसादाद्भवताऽग्रजस्य त्रैलोक्यसाम्राज्यमिहोपभुक्तम् ।
विमुञ्चतस्ते व्यसनोदये तं लज्जाभरेण स्फुटितं न वक्षः ॥ ३१ ॥
अस्मत्कुले प्रोग्रतवीरपुंसि क्षुद्रस्वभावो मलिनस्त्वमीदृक् ।
कल्पद्रुचिन्तामणिरत्नयोनौ जातः पयोधाविव कालकूटः ॥ ३२ ॥
स्वबन्धुवैरं रिपुभृत्यता च केनोपदिष्टस्तव धर्म एषः ।
अमी भविष्यन्त्यतिदुष्पवृत्तिनिवृत्तिशि (क्षा) गुरवः शरा मे ॥ ३३ ॥
स्फारप्रणादैर्मुखरीकृताशं करेण मौर्वी मुहुरामृशन्तम् ।
साटोपमित्थं विरतं निगद्य तं प्रत्युवाचाथ विभीषणोऽपि ॥ ३४ ॥
वीरः पिता ते यदि मेघनाद छलेन किं रामवधूमनैषीत् ।
सुपार्श्वचञ्चूपुटगोचरस्थः कथं स वाणीं कृपणामभाणि ॥ ३५ ॥
 
[ रामचरितस्य
 
अहर्निशं तीर्णकुकर्मकोटिः स्फायन्महापातकपङ्कलिप्तः ।
पिताऽपि तावत् न विमुच्यते किमहो कथा का वद सोदरस्य ॥ ३६ ॥
बन्दीकृतानेकमहार्षिकन्यानिःश्वासधूमोमिंनिलीनशक्तिः ।
निष्ठामसत्कर्मफलैः स यन्ता रामेषवस्सन्तु निमित्तमात्रम् ॥ ३७ ॥
 
तथाऽपराद्धं भुवनैः किमस्य तान्येव मध्नाति निरन्तरं यत् ।
तद्रक्षणार्थ वसुधावतीर्ण न वेत्ति रामं पुरुषं पुराणम् ॥ ३८ ॥