रामचरितम् /407
This page has not been fully proofread.
परिशिष्टम् २ ]
एकोनचत्वारिंशः सर्गः ।
पयोऽभिषेकेन पदाम्बुजाग्रे संवाहनेन व्यजनानिलेन ।
मूर्च्छा तयोर्दुर्द्धरशोकवेगसमुद्भवा शान्तिमनायि तेन ॥ १३ ॥
क्षणं मुमूर्च्छ श्लथगात्रयष्टिः क्षणं स चैतन्यमिव प्रपेदे ।
क्षणं पुरस्थामिव वीक्षमाणः प्रियां प्रसीदेति जगाद रामः ॥ १४ ॥
मृगाक्षि मामानतमौलिमेनं मुक्तत्वा (मत्वा) मुखे मोचय मौनमुद्राम् ।
मनो मुहुर्मानिनि मध्यमानमुपेक्षसे किं मम मन्मथेन ॥ १५ ॥
मृषा किमित्थं रसने ब्रवीषि गतैव साऽत्यन्तमदर्शनं मे ।
विभीषणस्तं प्रलपन्तमेवं कर्णामृतप्रायमुवाच वाक्यम् ॥ १६ ॥
अद्यैव देवी न विपर्ययोऽत्र साक्षात्कृता नाथ चरैर्मदीयैः ।
निकुम्भिलाहोमपरेण तेन मायाविनाऽसौ निरमायि माया ॥ १७ ॥
न कारयेत्तादृगनिष्टमस्या जयाशया रुद्धमतिर्दशास्यः ।
विधातुमीशो न विना तदाज्ञां भृशं नृशंसोऽपि च मेघनादः ॥ १८ ॥
तस्य प्रसन्नस्तपसा विरिञ्चिः पुरा वराणां शतमुत्ससर्ज ।
स साम्प्रतं निश्चितमस्ततन्द्रो जुहोति हव्यं विजयाय वन्हौ ॥ १९ ॥
समूतवर्मायुधवाजिकेतुः संजुहृतस्तस्य रथोऽग्निकुण्डात् ।
आविर्भविष्यत्यपि तं न तस्मिन्नारूढमीशोऽपि विजेतुमीशः ॥ २० ॥
निकुम्भिलाहोमसमुत्सुकत्वान्मोहात्मिकी मित्यकरोत्स मायाम् ।
किमन्यथा वानरयूथपेभ्यो निरत्ययं पूर्णमनोरथ: स्यात् ॥ २१ ॥
तस्यैकतानत्वमुपागतस्य सम्पूर्यते होमविधिर्न यावत् ।
असंशयं सम्प्रति नाथ तावदाक्रम्यते नेतरथा स जेयः ॥ २२ ॥
तस्येति वाक्यामृतशीकरौघैर्निर्वापिताशेषमनोऽभितापः ।
रामः कियद्भिः कपियूथनाथैः सहादिशल्लक्ष्मणमाहवाय ॥ २३ ॥
नीलानिली दक्षिणवामपक्षे विधाय पश्चात् नलदुर्मुखादीन् ।
पुरस्सरीभूतविभीषणेन सौमित्रिरादिष्टपथश्चचाल ।॥ २४ ॥
सुरर्षयो हर्षविकासिवका जयाशिषोऽस्मै ददुरम्बरस्थाः ।
स्वर्योषितश्चाक्षतपात्रहस्ताः प्रास्थानिक मङ्गलमस्य चक्रुः ॥ २५ ॥