रामचरितम् /406
This page has not been fully proofread.
३७४
इन्द्रजिसिधनवर्णनो नाम
एकोनचत्वारिंशः सर्गः ।
[ रामचरितस्य
अथो निदेशात्त्रिदशेन्द्रशत्रुर्निगूढमन्त्रस्य दशाननस्य ।
मायामयीं रामवधूं विधाय स पश्चिमं द्वारमवाप पापः ॥ १ ॥
म्लानां कृशां शोकनदीनिमग्नां दीनां कृपार्हामकृपेन तेन ।
करावकृष्टामित्र वारणेन तां पद्मिनीमैक्षत गान्धवाहिः ॥ २ ॥
तां वीक्ष्य निस्त्रिंशकरेण तेन साध्वीं पुरस्ताद्धृतवेणिमूलाम् ।
दुःखस्य रोषस्य कृपारसस्य जगाम कोटिं परमां हनूमान् ॥ ३ ॥
उल्लङ्घितो वारिनिधिर्यदर्थं भ्रान्तं त्वयाऽस्मिन्नगरे यदर्थम् ।
प्रभुप्रभुस्ते व्यथते यदर्थं तां रक्ष रे वानर हन्यमानाम् ॥ ४ ॥
आबालकालादपि संचितं यत् संदर्शयास्मासु बलं तदा ।
स सान्त्वनेनैव निषेद्धुकामं हसन्नुवाचेति पुनः पुनस्तम् ॥ ५ ॥
त्रायस्व मां राम जगच्छरण्य युक्ता न ते लक्ष्मण मग्युपेक्षा ।
तदक्षनिर्वाणपरं हनुमन् गतं बलं तेऽद्य यतः श्लथोऽसि ॥ ६ ॥
पापाऽस्मि तात प्रियदुःखदेति स्थाने तवाशीमयि निष्फलाऽऽसीत् ।
तवापि हा गोत्रगुरो वसिष्ठ रामेऽनघे किं फलिता न वाच ॥ ७ ॥
तामातुरां गद्गादेकार्तकण्ठीमिति ब्रुवाणामतिदीनवाचम् ।
हत्वाऽसिना तस्य पुरो दुरात्मा यथागतं रात्रिचरचार ॥ ८ ॥
स कोऽपि हा हेति रवस्तदानीं वनौकसां तत्र समुल्ललास ।
पप्रच्छ येनान्तरनिष्टशङ्की रामः शुचां कारणमागतांस्तान् ॥ ९ ॥
शनैरशंसन्नतिमात्रपृष्टास्तदिन्द्रजिद्दारुणकर्म तेऽस्मै ।
तद्वाक्यतीव्राशनिना हतोऽसौ पपात शाखीव विभिन्नमूलः ॥ १० ॥
कैकेयिमातः फलितस्तवैव सहस्रशाखः खलु कामशाखी ।
इति ब्रुवाणेन च लक्ष्मणेन पादारविन्दोपरि तस्य पेते ॥ ११ ॥
ययुः परां निर्गतचेतनास्ते काष्ठां शुचः कामपि वानरेन्द्राः ।
विभीषणस्तत्त्वविदेक एव न शोकपङ्गेन पुनर्विलिप्तः ॥ १२ ॥