This page has not been fully proofread.

परिशिष्टम् २ ]
 
अष्टत्रिंशः सर्गः ।
 
उदारगम्भीर गुणाभिराममुक्त्वेति वाक्यं विरराम रामः ।
निवर्तयामास निजं क्रियायास्तस्याः सुमित्रातनयोऽपि चेतः ॥ ५२ ॥
बलं विलुप्तं सकलं कपीनां रोमाग्र एवापि मम क्षतिर्न ।
एतावजित्वा बत तातपादान् पश्यामि न श्यामिकया कयाऽपि ॥ ५३ ॥
 
विदारितेन्द्रद्विरदेन्द्रकुम्भा अप्येतयोर्मे विशिखास्स्खलन्ति ।
तातेन दिष्टोऽस्म्यनयोर्जयार्थमलङ्घनीयो हि गुरोर्नियोगः ॥ ५४ ॥
यमः सुरेन्द्रो धनदः प्रचेता जिता मयाऽमी युधि लोकपालाः ।
मनुष्यमात्रावपि तावदेतौ मनो विजेतुं मम संशयालु ॥ ५५ ॥
 
तन्मायया मोहयितुं यतिष्ये मूढाविमौ मे भवतः सुजेयौ ।
इत्यादि चित्ते सुचिरं विचिन्त्य जगाम लङ्कने दशकण्ठमनुः ॥ ५६ ॥
 
३७३
 
तस्मिन्गते जाम्बवतो निदेशात् महौषधीनामुचितक्रियाभिः ।
क्षणात् शरीरैर्विशदान् कपीन्द्रान चक्रे चिकित्सां चतुरः सुषेणः॥ ५७ ॥
 
मुखाम्बुजानि व्यकसन्सुराणां गतेऽन्तरिक्षादथ मेघनादे ।
 
ये वाऽभवन् नष्टचराः प्लवङ्गास्तेषांजकीटा (खञ्जरीटा ) इव शीघ्रमीयुः ॥५८ ॥
प्राप्तप्रबोधैः प्रसभं परस्य पुरी परीये परितः लव: ।
 
तदा सुरेन्द्रारिकृतस्तु तेषां दुःस्वमतुल्यः स बभूव डिम्बः ॥ ५९ ॥
आक्रान्तकान्तनगरीनिलयाग्ररथ्याप्राकारचैत्यशिखरोपवनद्रुमाणाम् ।
कोलाहलेन मुदमुद्रहतां कपीनां चक्रे पदं हृदि सुरेन्द्ररिपोरमर्षः ॥ ६० ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये अष्टत्रिंशः सर्गः ।
 
न मधुरं मधु फल्गु च फाणितं रसपरा न सिताऽपि सुधा मुधा ।
अधर एव नवप्रमदाधरो लसति भमिकवेः कवितारसे ॥