This page has not been fully proofread.

३७२
 
इन्द्रजियुद्धवर्णनो नाम
 
तन्नैकशस्त्राहतिभिः समन्तात् शराससंग्र । हविशीर्णगात्राः ।
 
एते तथाऽन्येऽपि वलीमुखेन्द्राः सङ्ग्रामखिन्ना इव शेरते स्म ॥ ३९ ॥
तदाशुगावेग तयाभिरामबलैकशालाग्रविणी विशाला (?) ।
अह्नाय शाखामृगराजिशाखा प्रवेपमाना किल भङ्गमाप ॥ ४० ॥
वेलातटान्तांश्च दरीगिरीणां द्वीपानि वार्जेस्तरुकोटराणि ।
 
दृष्ट्वा निपातं युधि यूथिकानां भयादनीकानि युयुः कपीनाम् ॥ ४१ ॥
 
[ रामचरितस्य
 
हरीश्वरो जाम्बवताऽङ्गदेन समं सुषेणेन हनूमता च ।
विभीषणः स्वैः सचिवैश्चतुर्भिस्तस्थौ प्रभू दाशरथी परीत्य ॥ ४२ ॥
किं कान्दिशीकैर्निहतैरमीभिर्मयेति मुक्तः ( क्त्वा ) प्लवगान्हतास्थः ।
अत्यादराद्दाशरथौ शरौघान् ववर्ष ( तत्रैव ) तथेन्द्रशत्रुः ॥ ४३ ॥
आकर्णकृष्टोत्कटचापदण्डे सुरेन्द्रशत्रौ क्षिपति क्षुरमान् ।
अहो महोवर्ष्म पुराणपुंसः तन्मर्मरक्षैकपरं बभूव ॥ ४४ ॥
किंकार्यतामोहमना विनाशे प्रत्येक मुत्सर्पति वानरेषु ।
स्वैरप्रचारं तमवेक्ष्य शत्रोः रामं तदा लक्ष्मण इत्युवाच ॥ ४५ ॥
 
क्षयाय सर्वक्षणदाचराणां वैरिश्चमस्त्रं तदहं नियोक्ष्ये ।
क्षयाग्निरौद्रार्चिष यस्य यास्यन्त्युत्खातपक्षाः शलभत्वमेते. ॥ ४६ ॥
ततोऽध्वगानां कुशलोऽस्तु पन्थाः सुराः परं संमदमुद्वहन्तु ।
निर्विघ्नमुच्चैर्मुनयो जयन्ता (?) मनैकपेये विहितेऽद्य विश्वे ॥ ४७ ॥
रोषातिरेकात्कृतसर्वरक्षःक्षयाय (नु )सन्धानदृढप्रयत्नम् ।
प्रोवाच सुस्मेरमुखाम्बुजश्रीः रामः सुमित्रातनयं नयज्ञः ॥ ४८ ॥
किमेष रक्षोपसदेषु तेषु विजृम्भते ते प्रतिघान्धकारः ।
स्फुरद्विवेकांशुनतोऽपि रोचि(?)र्विलुप्यते येन निरङ्कुशेन ॥ ४९ ॥
 
अयुध्यमानान् पृथुकान् प्रमत्तानन्तःसतः साध्वसिनोऽतिवृद्धान् ।
तव नतो मांसभुजोऽपि भानोः कुलावलेपी भविता कलङ्कः ॥ ५० ॥
रोषान्निवर्तस्व न युक्तमेतत् न धर्ममुज्झन्ति रणेऽपि शूराः ।
विमुक्तधर्मस्य कदाऽपि पुंसः किं वत्स सिध्यन्ति मनीषितानि ॥ ५१ ॥