रामचरितम् /403
This page has not been fully proofread.
परिशिष्टम् २ ]
अष्टत्रिंशः सर्गः ।
संपश्यतां वैरिदिदृक्षया द्यां केषाश्चिदृक्षप्लवगेश्वराणाम् ।
स पूरयित्वा परितः पृषत्कैर्मुखानि भस्त्राकरणीचकार ॥ २६ ॥
स्फारस्फुरत्तद्विशिखाभिघातस्फुटत्कपीन्द्र द्धृतशैलजन्मा ।
जगद्विसर्पी ध्वनिराविरासत्सिंवर्तनिर्घातसहस्रघोरः ॥ २७ ॥
शरोत्करेण प्रहरत्यवश्यं मामेव नान्यं रुषितो हठेन ।
वलीमुखेन्द्रैरिति बाणभिन्नैः प्रत्येक मन्तर्बिभरांवभूवे ॥ २८ ॥
तदीयनाराचशताभिपातक्षतक्षरच्छोणितशोणशोभम् ।
मधूदये पुष्पितकिंशुकानां तद्वानरानीकमवाप लक्ष्मीम् ॥ २९ ॥
प्रत्यङ्गमृक्षप्लव गमवी रास्तद्वाणभिन्नाः शतशो मुमूर्छुः ।
करोद्धृतानो विविदुङ्कुमास्ते नष्टसंज्ञाः पततः पृथिव्याम् ॥ ३० ॥
३७१
रे रे प्रकाशीभव मुञ्च मायां त्वमाद्यवीरो दशकन्धरस्य ।
वीरव्रतं क स्थलयोधिता चेत्त्वया विजिग्ये कथमित्थमिन्द्रः (१) ॥ ३१ ॥
मुहुः समास्फोटितपुच्छदण्डं नर्दन्तमुच्चैस्तरमित्युदीर्य ।
विशिष्य सोऽक्षस्मरणेन बाणैर्वीरं समीराङ्गजमाजघान ॥ ३२ ॥ युग्मम् ॥
समुद्धृतक्षिप्तगिरीन्द्रशृङ्गैराच्छादयन्तं जलदैरिव द्याम् ।
शिलीमुखै: संयति सूर्यसूनुं विव्याध स व्याध इव द्विपेन्द्रम् ॥ ३३ ॥
अवार्यवीर्यस्य सुरेन्द्रशत्रोः पतत्पृषत्कैश्चितयुद्धमाप्तान् ।
हृदान्न सत्त्वामृतमुत्तरङ्गं चित्रं मनागभ्यगमन्नलस्य (?) ॥ ३४ ॥
चिक्षेप शृङ्गाणि तथा गिरीणां शालान्विशालानपि वालिसूनुः ।
तद्वर्जनव्यग्रतया कथञ्चित्स बाणसन्धानपरो यथाऽऽसीत् ॥ ३५ ॥
निरन्तरं व्योमनि शैलशालविक्षेपजातश्रमसालसाङ्गः ।
तन्मार्गणैर्मर्मसु विद्धमात्रो निपत्य नेत्रे निमिमील नीलः ॥ ३६ ॥
तारं त्रिलोकीविदितैकसारं भूभृत्कराग्रं नभसि स्फुरन्तम् ।
निशातशक्त्या हृदये निहत्य स लम्भयामास विसंज्ञमुवम् ॥ ३७ ॥
गवो गवाक्षो गवयो गजश्च दरीमुखश्चन्दन इन्द्रजानुः ।
रम्भो रुमण्वान् विनतो नतश्च रभः सुबाहुः द्विविदोऽथ मैन्दः ॥ ३८ ॥