रामचरितम् /402
This page has not been fully proofread.
३७०
इन्द्रजियुद्धवर्णनो नाम
पितामहाराधनदृष्ट सर्वमहास्त्रपारस्य जगत्त्रयेऽपि ।
क: संयुगे वत्स तवोर्जितस्य सोढुं शरासारमलंभविष्णुः ॥ १३ ॥
भीरुस्वभावाच्चपला कपीनां जातिर्न सा तेऽभिमुखी भवित्री ।
तौ तिष्ठतदुरगेन्द्रभीमैः शरैः समाप्तिं मनुजौ नयस्व ॥ १४ ॥
ताव मिथ्याजटिलौ मनुष्यौ सुग्रीवमात्माग्रजघातिनं तम् ।
कुलद्रुहं वत्स विभीषणञ्च त्वमन्तकस्यान्तिकमापयाशु ॥ १५ ॥
तन्त्र्यस्तसर्वप्रधनातिभारः स सन्निगद्येति तदा व्यरंसीत् ।
वृत्रद्विषद्वैर्यपि वीरवर्यस्तां वाचमोमित्युररीचकार ॥ १६ ॥
अथारिनिर्मूलनबद्धकक्षो विक्षोभयन्नाकसदां मनांसि ।
ययौ प्रणम्य क्षणदाचरेन्द्रं स ब्रह्मरक्षोनुगतोऽन्यगारम् ॥ १७ ॥
स क्रूरकर्मा शरपत्रदर्भानास्तीर्य बहावभिचारमन्त्रैः ।
हविर्महाजाङ्गलमक्षवृक्षसमित्समिद्धे (?) जुहवांबभूव ॥ १८ ॥
[ रामचरितस्य
निकृत्तकण्ठस्य शितिच्छगस्य निधाय शीर्ष स्रुचि लोहमय्याम् ।
अच्छिन्नधाराभिरसृङ्मयीभिः पूर्णाहुतिं शक्ररिपुचकार ॥ १९ ॥
अथो रथं न्यस्तसमस्तहेतिमारुह्य मायापिहितस्वरूपः ।
आधाय सन्धां रिपुनिर्जयाय ययौ स जन्याय भुजाभिमानी ॥ २० ॥
किमेतदित्यद्भुतमीक्षितासु दिक्षु प्लव: स समाशशंस ।
विभीषणस्तं रवमाहवाय निर्गच्छादिन्द्रारिधनुर्गुणस्य ॥ २१ ॥
नभश्चराणामपि लोचनानामगोचरत्वं वियति प्रयातः ।
स ताडयामास बलेन बाणैर्वलीमुखात्राक्षसराजसूनुः ॥ २२ ॥
यतो यतः सम्पततः पृषत्कानद्राक्षुरक्षामरुषः कपीन्द्राः ।
दधाविरे ते द्रुमशैलहस्ता जिघांसया व्योमनि तत्र तत्र ॥ २३ ॥
मायाविनस्तस्य रणे न रूपं न कार्मुकं नापि रथो न यन्ता ।
परिस्फुरद्धाणपरम्पराभिर्विद्धं स्वमेवैक्ष्यत वानरेन्द्रैः ॥ २४ ॥
यान्येककालं शतशः समेत्य सानून्यमुञ्चन् दिवि वानरेन्द्राः ।
अलब्धलक्ष्याणि दिवः पतन्ति तानेव तानि व्यथयांबभूवुः ॥ २५ ॥