This page has not been fully proofread.

परिशिष्टम् २ ]
 
अष्टात्रंशः सर्गः ।
 
अष्टत्रिंशः सर्गः ॥
 
अथ क्षुरमेण रघूद्वहस्य तं छिन्नशीर्षं समवेक्ष्य खारिम् ।
प्रापुर्भयभ्रान्तविलोचनानि रक्षांसि शेषाणि कियन्ति लङ्काम् ॥ १ ॥
समन्ततो दृष्टरघूद्वहस्य शस्त्रान्धकारादिव दिग्विमूढैः ।
स्वनाशशङ्कनकुलमानसैस्तैः कथञ्चिदापे दशकण्ठसंसत् ॥ २ ॥
दशाननायेति मलीमसाभा नाशं शशंसुः खरनन्दनस्य ।
ते यातुधाना इव सम्परायभङ्गोद्भवाकीर्तिमषीविलिप्ताः ॥ ३ ॥
तत्स्थैर्यमौज्झत्तदपायवात्याबलाद्धुतो यद्दशकण्ठशाखी ।
तदेन्द्रजिद्बाहुविकत्थनैव लता ग्रहोऽभूदवलम्बनाय ॥ ४ ॥
आकुञ्चितं सव्यम (व) द्यकर्मा निवेश्य पादं मणिरत्नपीठे ।
दुर्वारदोर्दर्पमसौ जगाद दशाननः संसदि मेघनादम् ॥ ५ ॥
वदन्त्यमी सङ्गरकान्दिशीका: प्रत्येषि कच्चिन्मकराक्षनाशम् ।
तस्मिंस्तु मायापिहितस्वरूपे मन्येऽत्यय भ्रान्तिरमीभिरापे ॥ ६ ॥
ऋक्षप्लवकपरिच्छदेन निरोजसा विक्रमवर्जितेन ।
न जीयते तेन स तापसेन गोमायुनेव द्विरदोऽतिमत्तः ॥ ७ ॥
कासौ तरस्वी मकराक्षवीरः क्षुद्रस्तपस्वी क स रामनामा ।
कस्तर्क येन्नाशममुष्य शाबात्पञ्चाननस्येव कुरङ्गपुत्रात् ॥ ८ ॥
स तेन चेत्संयति शौर्यशाली छलेन केनापि हतो महौजाः ।
न जातु पुंसां हि बलं बलीयः कालो बलीयानिति मे वितर्कः ॥ ९ ॥
त्रैलोक्य (?) लोकोत्तरविक्रमस्त्वं रणाय वत्सोत्सहसे न यावत् ।
चेतश्चमत्कारकराणि तावत् मनुष्यडिम्भस्य विजृम्भितानि ॥ १० ॥
समन्ततस्त्वच्छ र जालदृष्ट्या सान्द्रान्धकारे सति मेघनाद ।
बभूव नालं युधि दर्शनेऽपि सहस्रनेत्रस्य सहस्रनेत्री ॥ ११ ॥
नेन्द्रादयः संयति लोकपाला न च ग्रहा नो वसवो न रुद्राः ।
न सिद्धविद्याधरकिन्भराश्च तवाभिमुख्यं बलिनोऽपि जग्मुः ॥ १२ ॥