This page has not been fully proofread.

परिशिष्टम् २]
 
सप्तत्रिंशः सर्गः ।
 
प्रत्यग्रकूटकुशलेषु रणोत्कटेषु योधेषु सत्स्वपि निशाचरचक्रवर्ती ।
सेनापुरःसरमभुं मकराक्षमेकं कृत्वा जिगाय भुवनानि चतुर्दशापि ॥ ६२ ॥
सर्वान्सुराञ्जयति संयति लीलयैव मर्त्यानसौ न गणयत्यभिमानदोषात् ।
आशीविष भ्रुकुटिमीक्षितुमप्यशक्तो लोकोत्तरः प्रतिभटः पुरुषः पुरोऽस्य ॥ ६३ ॥
युक्तस्य दोर्भिरपि विंशतिभिः प्रसिद्धैः दावेव पन्दनस्य तु मुख्यदोषौ ।
एक: पिबन्निव जगत्रयमग्रतोऽसावन्यो न कस्य विदितो युधि मेघनादः ॥ ६४ ॥
अस्तप्रहस्तमुखमुख्य महाभटोऽपि लङ्कनपतिर्यदमुनैव दधाति दर्पम् ।
 
तस्मादमुं] यमपुरीपथिकं कुरुष्व तत्तादृशां हि महसां तव किं न साध्यम् ॥ ६५ ॥
देव प्रसह्य भवता भुजगेन्द्र रौद्रैर्निष्ठापितस्य रणमूर्ध्नि पुरा पृषत्कैः ।
पन्थानमेष गत एव पितुर्निजस्य कार्य हि कारणगुणै (र्व्य)तिरिच्यते(न) ॥ ६६ ॥
 
इत्थं विभीषणवचांसि धृतावधानः श्रुत्वा स मानवतनुः पुरुषः पुराणः ।
देवैः प्लवङ्गमशरीरधरैः परीतः तं लीलयैव भगवानवलोकते स्म ॥ ६७ ॥
 
३६७
 
काकुत्स्थ वेद्मि बलवानसि मानवेषु मा गर्वमुद्रह कृतं तव विक्रमेण ।
साङ्ग्रामिकत्वमथवा यदि किञ्चिदस्ति तत्तिष्ठ रे तव विलोकयिताऽस्मि सारम् ॥ ६८ ॥
कोदण्डदण्डगुण संहितवाणपुङ्खलत्करं तमिति वादिनमापतन्तम् ।
तोद्धुकाममनुजं विनिवार्य रामः प्रापत्तमस्रपमनर्गलमात्मनैव ॥ ६९ ॥
अन्योन्यसायकबलाइतिजातवन्दिर्ज्वालाकरालितसमस्तनभोन्तरालः ।
पश्यत्सु मत्सरभृता दिवि निर्जरेषु तेनाहवः प्रववृते रघुनन्दनस्य ॥ ७० ॥
आकर्णकुण्डलितकार्मुकमुक्तबाण : क्ष्वैडारवैर्मुखरयन् ककुभां मुखानि ।
सूर्यान्वयस्य पुरतः स पिधाय सूर्यं तत्कालरात्रिमिव रात्रिचरश्चकार ॥ ७१ ॥
दिग्व्यापिभिः प्रचुरवीर्यभराभिरामो रामोऽपि तस्य विशिखान् विशिखैर्विभिद्य ।
सद्यान के तुमलुनात्सहसा सुराणां दोलायमानमनसां सह साध्वसेन ॥ ७२ ॥
यावच्च रोषपरुषः प्रधनाय धन्वी भूयोऽपि पौरुषधनः स धनुर्धुनाति ।
तावत्पपात धनुषा सह तस्य बाहुर्बाणेन बालहरिणाडू मुखेन लूनः ॥ ७३ ॥