रामचरितम् /398
This page has not been fully proofread.
३६६
मकराक्षपरिक्षयवर्णनो नाम
[ रामचरितस्य
तेषां वलीमुखबलेरितशैलसानुसंघट्टजं कुलिशकर्कशविग्रहाणाम् ।
शङ्कनमगुः शिखिनमुग्रशिखं निरीक्ष्य सिद्धा दिवि मलयकालमहानलस्य ॥ ५० ॥
नक्तञ्चरैर्विनिहताः परिघप्रहारैः सम्मूर्छिता रणभुवि प्लवगा निपेतुः ।
ये न्यस्य पादमुरसि द्रुतलब्धसंज्ञास्तेषां शिरसि रुषिताचकृषुर्नखाग्रैः ॥ ५१ ॥
आत्मानमप्यगणयंञ्च रणानुरोधी स्वीयांत्रपात्रमवभिद्य नखैः प्लवङ्गः ।
कश्चिन्निजास्थिशकलायुधभृन्निहन्तुं यान्तं प्रहृत्य रजनचिरमभ्यधावत् ॥ ५२ ॥
कश्चिद्विपन्नकरिदन्तविवल्गदङ्ग स्तस्थौ गतासुरपि शोणितभुक् तथैव ।
मद्गाढमुष्टिनिहतोऽपि पपात नासौ धिङ्मां मुहुः स्वमिति तु प्लवगो निनिन्द ॥ ५३ ॥
भग्नोद्यमाः सकलजर्जरितास्थिवन्धवक्षस्युदग्रतलमुष्टिहताः कपीन्द्रैः ।
हस्तानिजानि विविदुः श्लथमुष्टिबन्धात् शस्त्राणि ते न निपतन्त्यपि नष्टृसंज्ञाः ॥ ५४ ॥
न
तेषाममन्दमदमेदुरमत्सराणां सेनामुदग्रतरसां प्लवगप्रवीराः ।
निन्युर्जयं रणरसोद्धुरकेसरास्ते पञ्चानना इव घटा युधि सिंधुराणाम् ॥ ५५ ॥
मस्तिष्ककीक सय कृद्रसमज्जमेदोमांसास्थिशोणितवसाकुलितमदेशम् ।
गृध्रादिपक्षिनिकरस्य च जम्बुकानां सौहित्यहेतुरभवत्समरांगणं तत् ॥ ५६ ॥
निष्ठां प्लवङ्गमबलैर्बलशालिनोऽपि ते निन्थिरे पलभुजो बहुशः समीके ।
उद्यद्भयोत्तरलतारदृशः कियन्तः सेनापतिं च शरणं मकराक्षमीयुः ॥ ५७ ॥
मा भैष्ट तिष्ठत विमुञ्चत मा मृधं वो भीतिभ्रमो मनसि कोऽयमभूतपूर्वः ।
तत्कोऽस्मि संयति न चेज्जगदद्य बाणैः कुर्यामराघवमलक्ष्मणमप्लवङ्गम् ॥ ५८ ॥
रक्षांसि तेन गिरमित्यभिधाय तानि दोर्गर्वखर्वितधिया रजनीचरेण ।
वैरं पितुर्मनसि संस्मरता कपीन्द्रान्मुक्त्वा रणाय चकमे रघुनाथ एव ॥ ५९ ॥
सुग्रीवनीलरभरम्भनलाञ्जनेयताराङ्गदद्विविद मैन्ददरीमुखाद्याः ।
तं न प्लवङ्गपतयो रुरुधुर्वृतैकवीरे भटे न हि घटेत मृधेऽन्यरोधः ॥ ६० ॥
सार्द्धं चतुर्द्दशसहस्रनिशाचरैर्य पूर्व भवान् खरमुदग्रबलं जघान ।
स्वामिन् विलोकय पलाशवरूथिनीनां नेता तवाभिमुखमेति तदङ्गजोऽयम् ॥ ६१ ॥