This page has not been fully proofread.

परिशिष्टम् २ ]
 
सप्तत्रिंशः सर्गः ।
 
पिङ्गप्रदीप्तनयनैर्नवनीरदा भैर्दीर्घास्यकोटरललद्रसनाकरालैः ।
 
अत्युन्नतायतर दोल्लिखितान्तरिक्षै रक्षोभटैरनुगतः स ययौ रणाय ॥ ३८ ॥ युग्मम् ॥
दानोद्धुरद्विरद बृंहितवाजिद्वेषासमूच्छितप्रतिदिशं पिदधे पयोधेः ।
स्फारं प्रघोषमपि राक्षसवाहिनीनां तत्कालनिर्गमनतूर्यमहानिनादः ॥ ३९ ॥
 
मूर्च्छन् सुवेलगिरिकन्दर कोटरेषु मन्द्रायुधध्वनितसंमिलितं समन्तात् ।
खं व्यानशे तरलयन् सदां समाजं प्रस्थानडिंडिमरवः पलभुक्चमूनाम् ॥ ४० ॥
मध्ये स्खलत्करितुरङ्गरथैः प्रतीपवातोद्धुतध्वजपटायुधचामराद्यैः ।
बाह्यात्मनामशकुनैर्विदितोऽप्यपाय: सेनाचरैर्न दहशेऽतिमदावलेपात् ॥ ४१ ॥
भ्रान्तास्तदा शिरसि मांसभुजो न गृध्राः सेनादिभिस्तदशुभं विविदुः पुनस्तैः (?)।
अत्युन्नबोधि (?) पतगा अपि नः स्वपक्षच्छायाभिरुद्गतभयाः प्रियमाचरन्ति ॥ ४२ ॥
तैर्दुर्निमित्तशतशंसितसन्निपातैरप्याह्वोत्कलिकयाऽऽकुलितैः पलादैः ।
आत्यन्तिकान्वयपरिच्युतशे मुषकै (?) शैक्षिप्लवङ्गमवलं तुमुलं पुरस्तात् ॥ ४३ ॥
ग्राहोग्रराक्षसगणामनणुप्रमाणां घोरारवां करितुरङ्गतरङ्गमालाम् ।
 
सेनां रुरोध सहसा प्रबल: प्लवङ्गव्यूहो महान् विधिनियोग इवाब्धिवेलाम् ॥ ४४ ॥
मावर्तत प्लवगराक्षसवाहिनीन मन्योन्यमर्दनरसातिशयो रणोऽथ ।
मुष्टिमाद्रिनखरमतिरुद्धवेगनिस्त्रिंशमुद्गर गदापरिघप्रहारैः ॥ ४५ ॥
 
अम्भोजनालवदलं कपिभिः प्रणुन्ना निन्युः शरैः शिखरिणः शतखण्डशस्ते ।
तैर्मुक्तशैलशिखरैः पिशिताशनानामग्रान्त आशु शमिताः शितशक्तयोऽपि ॥ ४६ ॥
ग्राहग्रहा वलयिताः ततपुच्छदण्डैरावेष्टय रोषरभसद्विगुणारुणास्यैः ।
उर्व्यां प्रकम्पितफणीन्द्रफणासहस्रमाजघ्निरे प्रसभमत्रभुजः कपीन्द्रैः ॥ ४७॥
 
गाढप्रहारपतिता रजनीचराणां वान्तो मुखेन रुधिरं हरयो मुमूर्च्छः ।
प्राणाः परं रुरुधिरे नियमेन तेषां रामाभिधानहरिकार्यरसामृतेन ॥ ४८ ॥
 
अङ्गेषु वज्रकठिनेषु निपत्य तेषां मुक्ताः शिलाः कपिभिरापुरणुत्वमुच्चैः ।
हस्तोद्धृतानि हतये पलभुग्भिरेव ते चायुधानि रभसोत्प्लवनेन जहुः ॥ ४९ ॥