रामचरितम् /396
This page has not been fully proofread.
३६४.
मकराक्षपरिक्षयवर्णनो नाम
[ रामचरितस्य
पूर्वं विचीर्णतपसा परितोषिताः सम्माप सर्वपरमास्त्रशतानि धातुः ।
तेजस्विनं तनुभुवं तव मेघनादं कस्तं सहेत समरे रजनीचरेन्द्र ॥ २५ ॥
आस्तां महेन्द्रविजयी स हि वीरवर्यः किं तेन नीचनरयोः कपिकीटकेषु ।
त्वच्छासनादहमपि क्षणदाचरेन्द्र क्रुद्धो रणे त्रिभुवनं कबलीकरोमि ॥ २६ ॥
क्रोधोद्धुरभ्रुकुटिधिकृतधूमकेतुर्निर्घातघोरघनघर्घरसिंहघोषः ।
स्वामिन्नहं जगदुपप्लवदानशौण्डः कुर्वन् प्लवङ्गमकुलप्रलयं विलज्जे ॥ २७ ॥
वेगान्निपातिविशिखप्रकरेण कण्ठात् सञ्छेदितैर्वनसदां स्रवदश्रुमिश्रैः ।
अद्यान्त्रनालवलयग्रार्थतैः शिरोभिर्लङ्कापथेषु तनवै वद तोरणानि ॥ २८ ॥
को विक्रमो विनिहतैर्भुजशालिनो मे तैर्भूरिभीतिभवनैः कपिभिर्वराकैः ।
गम्भीरवारिनिधिबन्धनगर्वितौ तौ द्वावेव हन्मि दशकण्ठ रणे मनुष्यौ ॥ २९ ॥
सन्तर्प्य रक्तसुरया कपियूथपानां तेषां शिरांस्युपनयन् प्रयतः फलानि ।
उत्कृत्तकण्ठपरिकृप्तनरोपहारैः कुर्या बलिं पलभुजां रणचवरेऽस्मिन् ॥ ३० ॥
कीलालकल्पितनदे रणदीक्षितोऽस्मि स्नातः समुच्चालित दुष्कृतिमन्त्रगर्भम् ।
क्लृप्तप्लवङ्गसमिधो जठराग्निकुण्डे रामं जुहोमि रचयन्नरमेधयज्ञम् ॥ ३१ ॥
स्थामैकधामभुजनिर्जितविश्वसारो न प्रापयामि युधि दाशरथी रथी चेत् ।
अग्राहमन्तक पुरं क्षणदाचरेन्द्र तत्का भवेत्सुभटसंसदि मे प्रशंसा ॥ ३२ ॥
प्रत्यक् विचारय निवारय मोहमन्तः पौलस्त्य कोऽहमिति चिन्तय मा विषीद ।
स्मेराशयो निजशिरांसि भवानिवान्यः कञ्चञ्चदर्चिषि निकृत्य जुहाव वह्नौ ॥ ३३ ॥
इत्युत्कटस्फुटवचांसि निशम्य तस्य मूढः परां मुदमवाप निशाचरेन्द्रः ।
स्थाम्नामिहास्ति भुजयोस्तव किं न साध्यमित्थं प्रशस्य समराय तमादिदेश ।॥ ३४ ॥
उद्गर्जता प्रियवचोभिरधीश्वरस्य प्रोत्साहितेन रजनीचरकुञ्जरेण ।
चित्रं मदान्धमनसा हरयोsपि तेन सङ्ख्याधिका न गणिताः स्फुटकेसरास्ते ॥ ३५ ॥
शक्तित्रिशूलहलमुद्गरभिण्डमालप्रासासिपट्टिशगदाङ्कुशपाशगर्भम् ।
हैमं रथं ध्वजविराजितमेत्य वाजियुक्तं स सारथिसमाहृतमारुरोह ॥ ३६ ॥
दृप्यद्भिरायुधधरैर्निशितासिरोमसंस्पर्शनोदितपरस्पर
रोषबाष्पैः ।
क्रूरैः स्थलमधन विद्भिरुदग्रवीर्येर्वक्षःस्थलप्रतिहतेन्द्रपविमहारैः ॥ ३७ ॥