This page has not been fully proofread.

परिशिष्टम् २ ]
 
सप्तत्रिंशः सर्गः ।
 
बालोप्यसि प्रचुरवीररसाम्बुराशिरग्रेसरः समरकर्मणि वाहिनीषु ।
 
वीरेषु वासवजिदादिषु सत्सु वत्स नाहं जयं प्रति न सम्प्रति संशयालुः ॥ १२ ॥
उन्मील्य शोकविकले मयि मुञ्च चक्षुः सम्प्रत्यहो न समयश्चिरशायितायाः ।
निद्रायितं समिति चेद्भवता प्रसिद्धधाम्नोऽपि राक्षसपतेर्मम का जयाशा ॥ १३ ॥
 
हेलाविहारितपुरन्दरकुम्भिकुम्भ कुम्भानुज त्वमपि वानरकीटकेन ।
तेन प्रसह्य समरे विनिपातितोऽसि लीलायितं जयति केवलमीश्वरस्य ॥ १४ ॥
 
बाष्पाम्बुपूरलहरी परिरुद्धकण्ठः सोऽलं विलप्य सहसा किल जोषमास ।
शोकस्य हन्त विषमः प्रसरः स कोऽपि येनात्मसाइशमुखोऽपि बलादकारि ॥ १५ ॥
 
तस्मिन्नपापशुचिमौलिकिरीट
कोटिरत्न युतिव्यतिकरस्तिमितैर्वभासे (?) ।
सा राक्षसैः परिषदिन्द्रधनुर्विराजिनिर्वातनिश्चलतमैर्जलदैरिव द्यौः ॥ १६ ॥
पाकोन्मुखं दशमुखस्य पुराकृतानां दुष्कर्मणां मनसिकृत्य फलं तदानीम् ।
संसत्सदः परिगलन्नयनाम्बुसिक्तां केऽप्यासनान्तभ्रुवमुलिलिखुर्नखाग्रैः ॥ १७ ॥
केऽप्यस्मरन् गिरमृषेर्हृदि नारदस्य केऽपि स्फुटं भवमनित्यतया निनिन्दुः ।
केचिज्जगुर्नियतिरेव बलीयसीति दीर्घा विकल्पपटलीं चिरमीयुरन्ये ॥ १८ ॥
सौहित्यमस्ति न जगद्गसतां परं नस्तेषां कियत् कबलनं नरवानराणाम् ।
दोर्विक्रमादगणिताखिलविश्वसारा: केऽप्युत्कटा इति हृदा घटयांबभूवुः ॥ १९ ॥
अस्तोकशोकविकलं तमवेक्ष्य चण्डदोर्दण्डदर्पदलितामरवरिवीर्यम् ।
इत्यूर्जिताक्षरमुवाच वचः खराङ्गजन्माथ संसदि तदा मकराक्षरक्षः ॥ २० ॥
लीलाप्रचालितमहेशनिवासशैल स्वामिन् शुचाऽन्यजनवत् परितप्यसे किम् ।
निःशेषिताखिलवन।न्तमहाद्रुमोऽपि पाथोनिधिं दहति न प्रबलो दवाग्निः ॥ २१ ॥
प्रायो द्विषत्यभिभवेन स शोकपात्रं जायेत तत्प्रतिविधान अनीश्वरो यः ।
सीदेत्तद्रुभिरपां हि रयो न तेषामुन्मूलनक्षमतमो विटपाहतोर्मिः ॥ २२ ॥
स्फूर्जद्वलात्मविषयीकृतविश्व विश्वश्रीसारिक । श्रितमहाभुजपञ्जरस्य ।
 
कस्ते रिपुस्त्रिभुवनस्य भवान् विजेता सम्भावना मनसि का व्यतिरेकपक्षे ॥ २३ ॥
 
भास्वत्किरीटमणिराजिविराजिमौलिमन्दारचा रुकुसुमप्रकरं किरन्तः ।
इन्द्रादयोऽपि ककुभां पतयः पदाग्रे येन प्रसह्य विजितास्तव लोलुठन्ति ॥ २४ ॥