This page has not been fully proofread.

मकरांक्षपरिक्षयवर्णनो नाम
 
परिशिष्टम् । २ ।
सप्तत्रिंशः सर्गः ।
 

 
[ रामचरितस्य
 
तत्राथ तं हनुमता निहतं निकुम्भं वीक्ष्य प्लवङ्गपतयो जयघोषणाभिः ।
उद्यत्प्रमोदरससम्भृतमानसास्ते व्यालोलकुण्डलितवालधयो ववल्गुः ॥ १ ॥
तेषां स कोपि रणमूर्द्धनि वानराणां तद्धेतुरुद्ध तजयध्वनिरुच्चचार ।
श्रोत्राध्वना दशमुखस्य मनः प्रविश्य शोकेन यः सपदि सङ्गमयांबभूव ॥ २ ॥
 
पुत्रेषु बन्धुषु सुहृत्सु सुहृज्जनेषु भृत्येषु तेषु न तथा युधि निष्ठितेषु ।
विश्वत्रयस्य जयिनः स यथाऽनुजस्य प्रीत्या शुशोच किल कुम्भनिकुम्भनाशे ॥ ३ ॥
 
तूर्ण रणादपगतक्षणदाचरेभ्यो विज्ञाय तन्निधनमाधिकरं दशास्यः ।
नेत्रावलीविगलदश्रुपरम्पराया व्याजाज्जलाञ्जलिमिवैष ददौ जयाय ॥ ४ ॥
मानैकगेहमपि दूरमभूतपूर्वी सम्माप योषिदिव कातरतामकस्मात् ।
आसन्नवर्तिनिरतस्य विनाशकाले सञ्जायते विननयः प्रकृते न कस्य (?) ॥ ५ ॥
धैर्य विहाय स जगत्त्रयधैर्यहारी शोकातिरेकविकलीकृतचित्तवृत्तिः ।
वक्रैस्तदा दशभिरश्रुजलाभिषिक्तैरित्थं सगद्गद पदं व्यलपद्दशास्यः ॥ ६ ॥
आगच्छ वत्स मम यच्छ वचो निकुम्भ प्राप्ता त्वया विमुखता पितुरग्रजे किम् ।
आबालकेलि विनयैकनिकेतनेन मच्चित्तवृत्तिपदवी न कदाऽप्यलङ्घि ॥ ७ ॥
 
दुःखाकुलं हृदयमेहि परिष्वजस्व सम्प्रत्यदो मम निवारय दीर्यमाणम् ।
हा इन्त तातगुरुमेनमनिष्टकष्ट कष्टामिमामनुभवन्तमुपेक्षसे किम् ॥ ८ ॥
उत्तिष्ठ विष्टपजयी त्वमिति प्रतीम : कोसौ प्लवङ्गपशुना भवतोऽवसादः ।
एह्येहि वीरवर नन्दय नन्दयैनं शोकात्समुद्धर समुद्धर को विलम्बः ॥ ९ ॥
कुत्र बजामि हृदयं क्व विनोदयामि कस्याग्रतो निजमिदं कथयामि दुःखम् ।
सूनुः सखा सहचरः सचिवो रहस्यरक्षैकतत्परमना हि भवान्ममाभूत् ॥ १० ॥
धिग्दुर्विधेर्विलसितं विषयेन बुद्धेः त्वं येन संस्मरणमात्रमनायि वत्स ।
किंवाऽथ तस्य मदभाग्यमहानिलेन निद्धूतपादप इवासि परं निरस्तः ॥ ११ ॥