रामचरितम् /392
This page has not been fully proofread.
३६०
सीताचारित्रपरीक्षणो नाम
तात नान्यगृहस्थाऽपि चलत्येवंविधा वधूः ।
सा योषिज्जातिरन्यैव या स्वगेहेऽपि चञ्चला ॥ ५२ ॥
शीलं नाम तदेतस्याः परं जानीमहे वयम् ।
पृच्छ नः सत्यमितरो दोषमेवेक्षते जनः ॥ ५३ ॥
पश्य रामकलत्रस्य चारित्रं ज्वलतोऽनलात् ।
उदेति शुद्धयाऽधिकया शिखिशौचमिव।शुकम् ॥ ५४ ॥
प्रमाणमनुधावन्ति पण्डिता भवदादयः ।
प्रमाणाभासमासाद्य किमस्यां व्यतितिष्ठसे ॥ ५५ ॥
आर्य पूर्वस्तवेक्ष्वाकुः सूर्यसायुज्यमीयिवान् ।
कृत्स्नं पश्यति काकुत्स्थ नृणां सुकृतदुष्कृते ॥ ५६॥
अयमाह विशेषेण विशुद्धेयं वधूस्तव ।
माभूः शङ्कशुकी तात गृहाणोमिति गेहिनीम् ॥ ५७ ॥
वैवस्वतो मनुरयं त्वामाह गृहिणीमनु ।
मा गच्छ वत्स सन्देहमसन्दिग्धगिरो वयम् ॥ ५८ ॥
अयं दिलीपो भूपाल: पौलस्त्योन्मूलनात्तव ।
दूरं राघव तुष्टोऽपि रुष्टो वाम्यपरिग्रहात् ॥ ५९ ॥
रघुघुतरं माह त्वामयं कुपिताननः ।
यदहासीर्विना दोषान् कुशध्वजसमुद्भवाम् ॥ ६० ॥
हे देवा मम दुर्बुद्धेस्तनयः सहगीदृशः ।
इत्यवादीद्दशरथो विनिश्वस्य मितं वचः ॥ ६९ ॥
अहो बालस्य कौलीनभयमस्येत्यजोऽब्रवीत् ।
यदर्धमात्मदेहस्य छित्वायं दूरमाक्षिपत् ॥ ६२ ॥
किं. बद्धः सरितां नाथ: क्लेशिताः किं वनौकसः ।
त्यक्तव्या यदि वैदेही किं हतो दशकन्धरः ॥ ६३ ॥
इति रामं समुद्दिश्य चिन्तयत्सु परस्परम् ।
गतेषु हर्षादित्युक्त्वा सूर्यवंश्येषु राजसु ॥ ६४ ॥
[ रामचरितस्य