This page has not been fully proofread.

परिशिष्टम् १ ]
 
चत्वारिंशः सर्गः ।
 
मैवं मैथिलि भर्ता ते वृद्धसेवी रघूहः ।
 
वेत्ति वेदवतीवृत्तं रम्भावृत्तं च स ध्रुवम् ॥ ३९ ॥
अत्यरुन्धति च स्त्रैणमापाणिग्रहणात्तव ।
रामो जानकि जानाति जनवन्न पुमानसौ ॥ ४० ॥
तपस्विन्योरिति तयोः संवदन्त्योः परस्परम् ।
आसीत्पुरस्तात्परिषत्सविशेषं विभीषणः ॥ ४१ ॥
किमन्यत्पण्डितम्मन्ये जाते रघुपतौ तदा ।
घिगिति स्वयमुदीप्तं साऽविशद्दहनं सती ॥ ४२ ॥
 
तामरुन्धन्त कपयस्तस्याः प्रतिहतास्त्विषा ।
किमन्यत्सोऽपि काकुत्स्थः प्रेक्ष्य तां चकितोऽभवत् ॥ ४३ ॥
पृष्टो न जाम्बवानेष पृष्टो नैव विभीषणः ।
सुग्रीवोऽपि न पृष्टोऽयं न पृष्टो हनुमानयम् ॥ ४४ ॥
 
अनुष्ठितं घोरमिदं त्वया राघव लाघवात् ।
यहुरुक्तैः प्रतीष्टेयं पुरस्तादेव मानिनी ॥ ४५ ॥
 
केन केनाहृतं दारु केन केनाहृतः शिखी ।
केन केन कृतो द्रोहश्चपलेन वनौकसा ॥ ४६ ॥
केन त्वमाहतो वह्ने केन चैषा हुता त्वयि ।
राजस्वं कथमादत्से तीक्ष्णदण्डः कपीश्वरः ॥ ४७ ॥
 
आकृष्यतां द्रुतं देवी कृशानुः किं करिष्यति ।
घियतामात्मतनुभिः सतीयं वानरेश्वरैः ॥ ४८ ॥
हा मुखं मुग्धबिम्बोष्ठं हा नेत्रे पक्षमलायते ।
हन्त हेमतरोर्वल्लीं दग्धां घिगिति वह्निना ॥ ४९ ॥
तेनाक्रन्दनिनादेन कपीनां गगनस्पृशा ।
अष्टादशमरुत्कोट्यः समानीता भुवस्तलम् ॥ ५० ॥
ऊचुस्तास्तात काकुत्स्थ कोऽयमद्य मनीषिणः ।
तब त्र्यम्बकचूडेन्दुलेखायां लाञ्छनभ्रमः ॥ ५१ ॥
 
s