रामचरितम् /390
This page has not been fully proofread.
सीताचारित्रपरीक्षणो नाम
मान्ये ततो जाम्बवति हनूमत्येकवल्लभे ।
सुग्रीवे सुहृदि म बहून् व्यञ्जयतीङ्गितम् ॥ २६ ॥
तारे हरौ केसरिणि सुषेणे शरभे रभे ।
सानुप्रस्थे पृथौ धूम्रे धूम्राक्षे गन्धमादने ॥ २७ ॥
दरीमुखे च सुमुखे कपौ दधिमुखेऽङ्गन्दे ।
तत्र तत्रापि विज्ञातसाहायकमहागुणे ॥ २८ ॥
विभीषणस्यानुगुणं भाषमाणे रघूद्वहः ।
प्रहमालम्ब्य सौमित्रिमशोकवनिकां ययौ ॥ २९ ॥
उन्मीलोन्मील वैदेहि पश्य देवि दिश: शुभाः ।
एति त्वत्पतिमादाय क्षणादार्यविभीषणः ॥ ३० ॥
गतो दुःसहदुःखोष्मा कालः कमललोचने ।
अनन्यशीताः सुचिरमावृत्ता दिवसास्तव ॥ ३१ ॥
उन्मूलितं रिपुकुलं सुवले पतिदेवरौ ।
मनोरथः स्तोकशेषः किं तथैव विषीदसि ॥ ३२ ॥
यद्यपदं प्रियसखि त्रिजटे तदपि स्फुटम् ।
न ममात्मनि कल्याणमन्तःकरणमीक्षते ॥ ३३ ॥
शृणु कारणमन्तःस्थमार्यपुत्रस्य वेयहम् ।
स बिभेति महासत्त्वः कौलीनस्य कणादपि ॥ ३४ ॥
एकाकिनी दीर्घमहमुषिता शत्रुसद्मनि ।
मित्रस्थानस्थितोऽपीह कः साधु मयि वक्ष्यति ॥ ३५ ॥
आन्तरः पुरुषो वेत्ति वेत्ति वायुः शिखी तथा ।
वेत्तीयं द्यौर्भगवती वेत्ति भूर्जननी च माम् ॥ ३६ ॥
पश्यन्त्येव जगद्वृत्तं न वदन्ति किमप्यमी ।
अहं साध्वीति संपृष्टा कथं वक्ष्याम्यसाक्षिकम् ॥ ३७॥
किं भूयसा भगिनि मां गणयान्यगतामितः ।
विरहज्वलनोच्छिष्टं जुहोमि ज्वलने वपुः ॥ ३८ ॥
[ रामचरितस्य