This page has been fully proofread once and needs a second look.

अनूपविष्टमनुजं दनुजारिमिवाद्रिजित् ।
प्रत्यभाषत वात्सल्यगद्गदानि पदानि सः ॥ ६९ ॥
 
एह्येहि प्रियसंलाप ह्लादयालिवितेन[^१] माम् ।
रुद्धं रुद्धमुपैत्यश्रु त्वामपीक्षे न लक्ष्मण ॥ ७० ॥
 
हा वत्स भवतोऽपीयमवस्थाऽङ्गेषु[^२] वर्तते ।
घ्रिय[^३]तां रामहतकः क्लेशयन्नेकबान्धवम् ॥ ७९ ॥
 
नास्ति वत्स चिकित्साऽस्य व्याघेर्विधुरजन्मनः ।
यस्य यापनया क्षीणमिदन्ते सान्त्वनामृतम् ॥ ७२ ॥
 
नैकदुर्वारघो[^४]राधिघट्ट[^५]नाचलिता अपि ।
तवाश्वासनया वत्स न गच्छन्ति ममासवः ॥ ७३ ॥
 
पितुर्न: प्रियमित्रस्य लूनपक्षस्य म[^६]द्द्विषा ।
संस्मरन्नोत्सहे वत्स मर्मच्छेदं जटायुषः ॥ ७४ ॥
 
तातस्य तातमित्रस्य वत्सवत्सलयोस्तयोः ।
अहमेवं गतः पापो निधनाय निमित्तताम् ॥ ७५ ॥
 
प्रियापहारजः शाम्येत्सम्यगुन्मूलिते रिपौ ।
मन्युदेहावधिरयं तातमित्रविपत्तिभूः ॥ ७६ ॥
 
नभस्तलात्खगपतौ पतति छिन्नपक्षतौ ।
कोऽपरस्तां मम सुहृन्मा भैषीरित्यभाषत ॥ ७७ ॥
 
स्याद्वत्स रामहतकात्लीबः कः पुरुषोऽपरः ।
एकपत्नीमनुगतामरातेर्यो न रक्षति ।। ७८ ॥
 
तया तेषु तपस्विन्या सीदतोरावयोरपि ।
दण्डकारण्यकष्टेषु मुखं न[^७] विधुरीकृतम् ॥ ७९ ॥
 
विदेहराजस्य सुता स्नुषा दशरथस्य सा |
हतरामस्य जायेति भ्रमति[^८] स्म वने वने ॥ ८० ॥
 
[१.] B, वने ।
[२.] C. ऽश्रु ।
[३.] A. ते ।
[४.] BC. वै ।
[५.] BC. ट ।
[६.] A. च ।
[७.] A. सु ।
[८.] A. न्ति ।