रामचरितम् /389
This page has not been fully proofread.
परिशिष्टम् १ ]
चत्वारिंशः सर्गः ।
प्रविश्य प्रश्रयवशातल्पान्तं पवनात्मजः ।
विभीषणस्यागमनं कथयामास लक्ष्मणम् ॥ १३ ॥
रजनौ सावशेषायामेव राजा विभीषणः ।
समायात इति श्रुत्वा रामः शयनमत्यजत् ॥ १४ ॥
कार्यमार्यागतं वेद्मि वक्तुमभ्युद्गतत्वरः ।
अयमह्लाय संप्राप्तस्तवाप्तेषु विशेषवान् ॥ १५ ॥
बदतीति सुमित्रायास्तनये कोसलात्मजः ।
उत्थाय महयामास महाराजं विभीषणम् ॥ १६ ॥
आसांचक्रे समं तेन सुग्रीवमुपवेशयन् ।
सगौरवं जाम्बवति व्यावर्तितमुखाम्बुजः ॥ १७ ॥
पप्रच्छ समुदाचारपर्यन्तेऽथ विभीषणम् ।
लङ्कागतमनातङ्क त्वराशङ्की रघूहः ॥ १८ ॥
पप्रच्छ तं प्रहशिराः सौमित्रिस्तदनन्तरम् ।
वेपमानः प्रजावत्याः प्राणितव्ये विनिश्चयम् ॥ १९ ॥
सत्यं ब्रूहि वलत्यार्या रावणे निहतेऽपि यत् ।
सपर्या स्वयमार्याया देवपादैरुपेक्षिता ॥ २० ॥
आर्य विज्ञापयाम्येष किमार्या विस्मृतेव वः ।
तदनन्तरवृत्तान्तं यन्न पृष्टो विभीषणः ॥ २१ ॥
तावूचे वाक्यसंक्षेपान्मितवादी विभीषणः ।
नाथौ किं बहुनोक्तेन गम्यतां यत्र जानकी ॥ २२ ॥
मयि स्थिते स्थितैवासावसून संरुध्य गत्वरान् ।
एतावत्सु मुहूर्तेषु संशयो मम तां प्रति ॥ २३ ॥
प्रसीद गम्यतां नाथ जीवन्ती वीक्ष्यतामियम् ।
ध्रियेत वेलामियतीमप्रामाण्यादसंशयम् ॥ २४ ॥
अवोचत सभास्तारानभीक्ष्णं समुदीक्ष्य सः ।
विदाङ्कुरुत वैदेही विलम्बान्नावलोक्यते ॥ २५ ॥
३५७