This page has not been fully proofread.

परिशिष्टम् १]
 
एकोनचत्वारिंशः सर्गः ।
 
ध्वस्तः पुरा रावणिरावणाभ्यां येनागमज्जम्बुकवद्धिडौजाः ।
तेनाधुना संप्रति गच्छ राम निर्वाहको मातलिरागतस्त्वाम् ॥ २६ ॥
इत्यग्रहीद्वाणपरम्पराभिरग्रे सुमित्रातनयं प्रसृत्य ।
छेत्तव्यदन्ताधरतालुजिह्वानसृग्भुजः कर्णकटूपदेशान् ॥ २७॥
वनौकसामाहवलक्षणानां चचाल कोटि: सह लक्ष्मणेन ।
तं रावणस्योपशयस्थमीये कृत्वापसव्यं रथमिन्द्रसूतः ॥ २८ ॥
सा कण्ठहेपालहरी हरीणां स रासभानां रसितोर्मिरुञ्चैः ।
विवतुर्भूरजसि प्रवृद्धे तद्वैरथं युद्धमभूतपूर्वम् ॥ २९ ॥
यत्सत्यमिन्द्रादपि सातिरेकं रामः स्तुतो मातलिना तदानीम्
मरुद्भिरस्तूयत सौष्ठवं तदपुण्यराशेरपि रावणस्य ॥ ३० ॥
योग्याभिरायोधनसाधनानामुभौ समानौ मुहुरैक्षिपाताम् ।
स पक्षपातश्चकरे मरुद्भिर्यत्पुष्पवर्षेण रघुवीरः ॥ ३१ ॥
असंख्यशाखामृगराक्षसक्षमसंख्यसेनाङ्ग विशेषसंपत् ।
असंख्यशङ्खादिकतुर्यभाण्डं चण्डमतिद्वन्द्वि नियुद्धमासीत् ॥ ३२ ॥
क्रूराङ्गुलिः सङ्गरगोचराणामावेदयन् मर्म सलोहितानाम् ।
विभीषणो रावणलोचनानामभूत् पुरो राघवकर्णमूले ॥ ३३ ॥
 
ततश्चकम्पे गुरुसाध्वसोमिंभिषिणः संवरणोद्धुरोऽपि ।
ररक्ष रामे रथिनि क्षितिस्थं तं लक्ष्मणः पङ्किमुखाननेभ्यः ॥ ३४ ॥
आलोकनोडूत निजान्ववायद्रोहक्रिया रम्भफलोपभोगात् ।
स रावणात् कारणरूढवैरान्माभीतिवादः कपिभिः प्रपेदे ॥ ३५ ॥
रथस्य तार्यादपि कामगत्वं योग्याबलान्मातलिराजहार ।
वाहाश्च ते बर्हिरुचः प्रकामं तमूहुरावलिंगभिरङ्गहारैः ॥ ३६॥
 
ते तेऽवतस्थुः (प्रजहुः ) कपयोऽभ्यमित्रं जैत्राभिरामैः करणप्रभेदैः ।
महौजसो भूमिषु तासु तासु कराङ्गिलालगृहीतलीलाः ॥ ३७ ॥
वरूथं कुथमक्षमश्वान्
च नाभीक्ष्णमभक्षिते स्म ।
सौमित्रिसुग्रीवसमर्पितात्मा रामः परं लक्षमिषोश्चकार ॥ ३८ ॥
 
३५१