This page has not been fully proofread.

३५.०
 
रामरावणयुद्धवर्णनो नाम
 
प्रशस्य भूयस्तमिदं जगाद मानुष्यके विस्फुरितं मयैतत् ।
तवोपयातस्य महेन्द्रमूलमुपेन्द्रभावेऽपि न दृष्टमासीत् ॥ १३ ॥
"थस्तवायं हरयस्तवामी तवाहमग्रे वद किं करोमि ।
वेशेचने वञ्चनकारणेन भ्राता कनीयानसि वासवस्य ॥ १४ ॥
प्रसीद सन्धेहि पृषत्कधाराः सौत्रामणं चापमिदं गृहाण ।
तपान्तजीमूत इव प्रसर्पन् जयोद्धतश्री दिशि दक्षिणस्याम् ॥ १५ ॥
 
[ रामचरितस्य
 
ततः प्रतीताः कपयः प्रतीयुर्निशाचरानागतसंप्रहर्षान् ।
ते पूर्वमासनमुरवारिभङ्गादलब्धयुद्धैकमहा महान्तः (१) ॥ १६ ॥
ततान तारः प्रकरं गिरीणां न प्रागिवाकर्ण्यत शङ्कुकर्णात् ।
कमप्यधाज्जन्यकलावलेपं नलस्तलेनाहतहस्तिकर्णः ॥ १७ ॥
 
पिपेष भृयः पिशिताशयूनामेकोऽङ्गदः कोटिमनोकहाङ्गैः ।
अग्रे यदृच्छाधिगतेन घोरं ग्राव्णाऽवधीत् कुम्भहनुं हनुमान् ॥ १८ ॥
आदेहपातादयमाहवोऽपि रामस्य सारोऽपि विलोकनीयः ।
क्षपाचरा : खादत खादतापि न घातमात्रादरयोऽद्य हेयाः ॥ १९ ॥
इति श्रुतायां प्रभुघोषणाया रक्षोवलं तत् क्षुभितं चचाल ।
तद्वीक्ष्य दूराज्जगदुः प्लवङ्गाः परस्परं साध्वसकश्मलाङ्गाः ॥ २० ॥
स कुम्भकर्णः सच मेघनादः सच प्रहस्तः खलु नैव कश्चित् ।
एतेऽधुना राक्षसशब्दवाच्याः पुरः पिशाचैः सह युद्धमासीत् ॥ २१ ॥
को मातलिः के हरयस्तथाऽमी स एव को वा मघवाऽभ्युपेतः ।
युद्धस्य रक्षोधिपतेः पुरस्तादस्य त्रिलोक्येव न कापि के स्मः ॥ २२ ॥
 
यस्यानिशं दूषणमेव जाल्मो विभीषणः श्रावयति प्लवङ्गनन् ।
सोऽयं समभ्येति चमूसमग्रः क्षुब्धो दशग्रीव इति प्रवीरः ॥ २३ ॥
इति प्रतापाच्चकितैः कप।न्द्रैरैन्द्रं मुहुः स्यन्दनमाश्रयद्भिः ।
अदृश्यत प्रष्ठनिशाचर । लीकालीनिमीलद्दशदिग्दशास्यः ॥ २४ ॥
रे राम रे लक्ष्मण रे हनूमन् यूयं त्रयः केवलमाहवेऽस्मिन् ।
अस्मासु जञ्झानिल भीषणेषु विभीषणो रेणुरयं वराकः ॥ २५ ॥