This page has not been fully proofread.

परिशिष्टम् १ ]
 
एकोनचत्वारिंशः सर्गः ।
 
अथैकोनचत्वारिंशः सर्गः ॥
 
अथान्तरिक्षाद्वपुषः प्रभाभिर्लिम्पन्दिशो दाशरथेः पुरोऽभूत् ।
निबद्धसर्वारिकुलप्रमाथं रथं समादाय सुरेन्द्रसूतः ॥ १ ॥
स मातलिर्भूतलगोचराय देवाय देवार्थसमुद्यताय ।
नमश्चकार प्रथमं विपाश्चज्जगाद पश्चादिति सूतृतानि ॥ २ ॥
प्रतीहि मां मातलिंमिन्द्रस्तमात्मानमिन्द्रानुजमप्यवेहि ।
त्वमादिदेवो भगवाननन्तस्त्वमन्तहेतोरिह रावणस्य ॥ ३ ॥
 
मोनत्रयीमन्वसरस्त्वमप्सु त्वं विश्वमेतत् कमठो बिभर्षि ।
दंष्ट्राकुराग्रेण समुद्रमूलात्त्वया वराहेण धरोद्धृतेयम् ॥ ४ ॥
जगत्रयीविद्रवदं हिरण्यपूर्व पुरा त्वं कशिपुं व्यदारीः ।
तथाऽर्धसिंहार्धमनुष्यमुग्रं कृत्वाऽद्भुतं रूपमभूतरूपम् ॥ ५॥
 
मायामयं वामनविप्ररूपमुत्पाद्य पादत्रययाचनेन ।
बलिं तथाक्रान्तसमस्तलोकं रसातले वासितवानसि त्वम् ॥ ६ ॥
परश्वथाम हुतराजलोकं त्रिः सप्तकृत्वस्तदनन्तमूर्तेः ।
त्वमेव रूपं मलिनीचकर्थ स्वरध्वरोधाद्वपुषाऽमुनैव ॥ ७॥
जयस्यरीनित्थमपि त्वमुर्व्यामेभिः किमस्माभिरिहागतैस्ते ।
परं गृहाणाग्रजगौरवेण पौरन्दरीमभ्युपपत्तिमेनाम् ॥ ८ ॥
इदं तदाहुः कवचं निवातमिदं पयोदाभिजनं धनुश्च ।
सहस्रसंख्या भगवन्नमी ते मयूरकण्ठस्तुरङ्गाः ॥ ९ ॥
प्रतीच्छ सर्व विजयस्व वेगात् प्रसीद पश्य द्रवतः कपीन्द्रान् ।
अनेन मच्छन्दचरेण घोरं जहि द्विषं दाशरथे रथेन ॥ १० ॥
तेनेन्द्रसाहाय्यमहोत्सवेन समीयुरुद्दामगिरः कपीन्द्राः ।
विलज्जमानोऽधिरुरोह रामः क्षणादपर्यस्तकुथं रथं तम् ॥ ११ ॥
स देवस्तः सविशेषमूर्छदुर्यानुगुण्यप्रथितानुभावः ।
तमस्तुताचर्यरथाधिरोहक्रियागुणन्यक्कृतशक्रशोभम् ॥ १२ ॥
 
३४९