This page has not been fully proofread.

३४८
 
रामरावणयुद्धवर्णनो नाम
 
गजो ललज्जे गवयो मिमील मनोऽविशत्कश्मलमङ्गदस्य ।
ययौ रुमण्वानपदिश्य यत्तद्दधौ न पुच्छं पनसस्तदोच्चैः ॥ ९१ ॥
दरीमुखः क्षुब्ध इव क्षणार्धं सुक्रोशनः क्रोशमतीत्य तस्थौ ।
समं गवाक्षेण विलक्ष एव गवोऽपि गव्यूतियुगं जाम ॥ ९२ ॥
मा भैष्ट मा भैष्ट गृहीतशैलाः समं मया सर्पत वानरेन्द्राः ।
इत्यर्कसूनुर्वचसा बभाषे न चेतसाऽस्तंगतसौष्ठवेन ॥ ९३ ॥
इति रजनिचराणां विक्रमेण प्रणुन्नं
 
दिशि दिशि तदनश्यद्वानराणामनीकम् ।
तरणिसुतहनूमज्जाम्बवद्वालिपुत्रैः
 
कथमपि च चतुर्भिः स प्रसादः प्रपेदे ॥ ९४ ॥
 
रघुपतिरपयानं तत्कपीनामियेष
 
द्विषि वलवति मृत्युर्निचितः कातराणाम् ।
अनुजमपि तदानीमिन्द्रजिद्युद्धविनं
 
कथमपि शपथौघैरात्मपृष्ठे चकार ॥ ९५ ॥
 
अयमवरजः सुग्रीवोऽयं पुरो हनुमानयं
 
मम च कतिचिद्वाणास्तेऽमी निषङ्ग निषादिनः ।
किमसि विमनाः कोऽयं पापः कृती भवसि क्षणात्
क्षणमिति गिरं रामेणोचेरभाषि विभीषणः ॥ ९६ ॥
 
उदितमभवदृष्टा देवैः समिळुवि तावुभा-
वनुचितमिदं पद्भ्यां देवो रथेन यदस्रभुक् ।
मनसि मरुतामीशश्चिन्तामधादथ निश्चया-
दनलसवलच्चक्षुर्माल: स मातलिमैक्षत ॥ ९७ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्येऽष्टत्रिंशः सर्गः समाप्तः ।
 
[ रामचरितस्य