रामचरितम् /379
This page has not been fully proofread.
परिशिष्टम् १.]
अष्टत्रिंशः सर्गः ।
मुण्डा जटाला विकटा विशाला: कालाः करालाच दिगन्तरेभ्यः ।
तमीयिरे तूर्यनिनादहूताः पतिं पशूनामिव भूतभेदाः ॥ ७८ ॥
नासीरबन्धाय निषेदुरारादरालजङ्घाः पिशिताशसङ्घाः ।
तुर्याणि तूर्णाद्भुतबोधनानि रेणू रणौत्सुक्यभृतां भटानाम् ॥ ७९ ॥
आसप्तपाथोनिधिकूलपीठात् पीठेश्वराः क्ष्मां च दिवं च रुध्वा ।
युद्धाय लब्धप्रमदप्रकर्षाः समीयिरे राक्षसपादमूलम् ॥ ८० ॥
आकेतितादप्यतिदूरभाजः क्षेत्रेश्वराः सत्वरमभ्युपेयुः ।
विलुप्यते न प्रभुषु प्रमत्तैः द्विषत्क्षणोपेक्षणजन्यमागः ॥ ८१ ॥
इति क्रमाप्तप्रतिहारमूलास्तदैव निर्ज्ञातकुलावदानाः ।
निवेदितास्ते सुभटा बभूवुः प्रहस्तपुत्रेण दशाननाय ॥ ८२ ॥
प्रणेमुरन्ये त्वनिवेद्यमानाः ऋव्याशिनः क्रव्यभुजामधीशम् ।
अर्हन्ति पूजां हि विशेषभाज: सामान्यभृत्याः प्रणमन्त्युपेत्य ॥ ८३ ॥
तद्वीक्ष्य लङ्काधिपतिः समन्तादनन्तमात्मीयमनीकचक्रम् ।
जहाँ शुचं पूर्वभटावसानसमुद्भवां गूढमहा महेच्छः ॥ ८४ ॥
संभूय भेजे सह तैस्तदानीं स वीरपाणं मधुनेतरेण ।
स उन्मना राघवयोरसृग्भिः पानान्तराय प्रधनावसाने ॥ ८५ ॥
तैः पूर्वयोधाभ्यधिकप्रपञ्चैः पञ्चत्वलोलैः सुभटैः परीतः ।
रथेन मथ्नन् कपियूथपालीर्विनिर्ययौ सान्द्रशवध्वजेन ॥ ८६ ॥
नेशुस्तमालोक्य वलीमुखेन्द्राः सेन्द्रा इवादौ मरुतां निकायाः ।
स रामसौमित्रिहनूमतामप्यभूत्तदा विस्मयनीयतेजाः ॥ ८७ ॥
विभीषणेनाथ चिरं चकम्पे तं प्रेक्ष्य रक्षोधिपसैन्यशेषम् ।
तत्पूर्वसङ्ग्राम इवावतेने स जाम्बवानप्यतिसाध्वसेन ॥ ८८ ॥
नलस्य न स्म प्रतिभाति किंचिन्नीलस्य हस्तादगलन्महीघ्रः ।
तारस्य चेतस्तरलं चचाल न केसरी भद्रमुवाच पृष्टः ॥ ८९ ॥
ईये न जीवान्तमहं गदेऽस्मिन् गृहीतपादो रघुनन्दनस्य ।
पृच्छत्सु पृच्छत्स्विति सत्यमूचुर्विशिष्यताऽऽस्येन सुषेणमिश्राः ॥ ९० ॥