This page has not been fully proofread.

३४६
 
रावण सैन्यसनाहवर्णनो नाम
 
तिष्ठन्ति कारास्वमरस्त्रियो वः किमाहवेनेति वधूर्वदन्तीः ।
वीक्ष्य क्षणं सस्मितमीयुरेव वीराः परीहासरसं न भेजुः ॥ ६५ ॥
विवृत्य दन्तैकपदं पुरस्तादन्यो मुखत्राणमुदस्य किंचित् ।
दूरानुयात्रां दयितामचुम्बत् पपौ न बिम्बोष्ठमधित्वरोऽस्याः ॥ ६६ ।
संभोगबाधाशयितामुरस्तः प्रेर्य प्रियामेकपदे यदीयुः ।
तेन प्रकामोदितकेलयोऽपि रक्षोभटा राक्षसतां विवव्रुः ॥ ६७ ॥
 
[ रामचरितस्य
 
आमोदनिद्रागमनादतीये न वाहुपाशं सुभटः प्रियायाः ।
कश्चित् प्रियालम्बितकण्ठ एव भटः प्रतस्थे दशकण्ठमूलम् ॥ ६८ ॥
 
तदङ्गनालिङ्गनलालनीयं शृङ्गारलीलायतनं क्षणेन ।
रक्षांसि जग्मुः परिवृत्य रूपमरातिरोषप्रतिघातहेतोः ॥ ६९ ॥
तद्दाम पौष्पं नृकपालमाला तच्चन्दनं लोहितमस्रचर्चा ।
 
तेषां तु यूनां रदनाश्च रम्या दंष्ट्रा बभूवुः कुटिलायताग्राः ॥ ७० ॥
 
आस्वादितं मांसमिदं कपीनां निपीतमेवं नरयोरसृक् ।
आपानगोष्ठ्यामिति कश्चिदूचे मनोरथं सिद्धमिव स्वकीयम् ॥ ७१ ॥
शून्यावुभौ यत्र नरप्रवीरावृत्या : (क्षा :) शतं ते कपयश्च मुख्याः ।
तयोर्न चास्माकमिदं च यानमुक्त्वेति संशप्तक वृन्दमीये ॥ ७२ ॥
जायायुगस्थापितखङ्गचर्मवर्माऽर्धमत्तः स्वयमेव युञ्जन् ।
आपानगोष्ठीं ललितामियाय जन्यक्रियां कोऽपि च मन्यमानः ॥ ७३ ॥
 
अवातरन्नर्कविमानजुष्टादसृग्भुजः खादासखेटकाभ्याम् ।
पातालमूलादुदगुस्तदाऽन्ये कालाग्निरुद्रप्रतिवेशिनोऽपि ॥ ७४ ॥
ज्वालामुखाः सुचिमुखाः प्रसस्रुः स्वनः श्रुतोऽभूत् कटपूतनानाम् ।
चस्खाल कङ्कालकुलं पुरस्तादहस्तपादं पिशिताय धावत् ॥ ७५ ॥
मिथ: कराग्राहितफक्कबन्धं कबन्धबृन्दं निरियाय नृत्यत् ।
दन्तोष्ठजिह्वा भ्रुकुटीजटाभिः दीप्तानि दिग्भ्यो निरगुः शिरांसि ॥ ७६ ॥
आखूरगव्याघ्रबिडालचक्रन्यस्तस्वहस्ताङ्किशिरःकटीकम् ।
अलं विकुर्वाणमितस्ततश्च बेतालवृन्दं विकटं पुरोऽभूत् ॥ ७७ ॥