रामचरितम् /377
This page has not been fully proofread.
परिशिष्टम् १ ]
अष्टत्रिंशः सर्गः ।
दिग्वाससं कोऽपि चकार स स्त्रीं सा वीक्षिता किञ्चिदतीष्टशंसि ।
नान्यः समेक्षिष्ट रणोद्धतत्वाइर्वादलं दुर्बलयोपनेयम् ॥ ५२ ॥
नाप्रीयतान्यः स्वविलासवत्याः श्लथोत्तरीयेण पयोधरेण ।
आशंसितारातिकरोटिभङ्गन्मयोगुडं पाणिगतं नुनाव ॥ ५३ ॥
संमृज्य भूयः स्वपटाञ्चलेन सासकलङ्कन करवालधाराम् ।
ययौ निषिद्धोऽप्यपरः सुहृद्भिराव्रणोन्मोचितपट्टबन्धः ॥ ५४ ॥
वृद्धाशिषामग्रहणादुदीर्णस्वान्तस्थितासुव्ययदोहदस्य ।
कस्याप्यलब्धानुनया वितेने मनस्विनी मङ्गलसंविधानम् ॥ ५५ ॥
प्रकाशराज्ञीशतचाटुवादं विवेश नान्तःपुरमेकवीरः ।
ययौ जिगीषारसभावितात्मा समीकमेवोद्यतसिंहनादः ॥ ५६ ॥
आचार इत्यध्वनि ते किलायं सृष्टोऽपसर्पाय ममानुबन्धः ।
बगच्छ धीरं किमियं त्वरेति गामश्रुतां कोऽप्यकरोत् प्रियायाः ॥ ५७ ॥
मया विमुक्तोऽसि न मुञ्चतीयं त्वां नाथ सौभाग्यवती नवोढा ।
मूढे समाश्वासय गेहिनि त्वमितीषदुक्त्वा सुभटो जगाभ ५८ ॥
एकः प्रियाबाहुलतोपधानमाश्लिष्य पुष्पास्तरणं रणाय ।
ययौ विलीनच्युतहस्तिहस्तां तामन्तशय्यां बहुमन्यमानः ॥ ५९ ॥
दृष्टापि कश्चिनिजवासगेहादुगाढसंग्रामरस: प्रियायाः ।
विहस्तताविश्लथमेखलाया नाभीतलं निष्कलवज्जगाम ॥ ६० ॥
जगाम कश्चिन्निजवासगेहान्नितम्बिनीं द्वारगतामतीत्य ।
असावुपेक्ष्यः शिथिलोच्चयश्रीः प्रभुप्रसादान्न गुरुर्नितम्बः ॥ ६१ ॥
किं रावणालोकनलाघवेन यामो वयं यत्र रघुप्रवीरौ ।
इति स्वदोर्दण्डवलावलेपादालोकयन्ति स्म मिथो रणोत्काः ॥ ६२ ॥
आपृच्छ्य भृत्यानखिलानयासीदाशंसितात्मैकभुजो भटोऽन्यः ।
अन्योन्यसंवासमनारथेन वहन्नसाधारणमाजिभारम् ॥ ६३ ॥
तले सति क्षुद्रमुशन्ति धीराः सहस्रधारं किमनेन यामः ।
इत्युज्झितव्यासुतया तदानीं निजासुनाथामपि तत्यजुस्ते ॥ ६४ ॥
४४
३४५