रामचरितम् /376
This page has not been fully proofread.
३४४
रावण सैन्य साहवर्णनो नाम
यातः कमालम्ब्य च विस्खलन्त्यौ शोकान्धकारेण दिशो निरुद्धाः ।
निर्वापितौ दुर्विनयान्मया वामत्युज्ज्वलावात्मजरत्नदीपौ ॥ ३९ ॥
इति ब्रुवन् वैरिविलुप्तचक्रश्चक्रन्द नारीव निशाचरेन्द्रः ।
ससार भिन्नप्रतिषेधसेतुः प्रत्यालयं कोपि तदा रवौधः ॥ ४० ॥
[ रामचरितस्य
स
निवारयामास पुनर्विलापकोलाहलं स प्रतिपन्नमौनः ।
क्षणेन शुद्धान्तमनाययच्च ते धर्मपत्न्यौ निजसौविदल्लैः ॥ ४१ ॥
निमन्त्रयामास महाहवाय वीरानशेषान् स गृहतिनाम्नः ।
इयेष वर्षान्तरवासिनां च साहायकं संप्रति चेतसैव ॥ ४२ ॥
सन्नाहरमुिरजानकादितुर्यारवं घोरमथादिदेश ।
पप्रच्छ कः प्राणिति सारणस्य शुकस्य को वाऽद्य कुलावशेषः ॥ ४३ ॥
अत्रान्तरे तन्त्रभरेण दूरात् प्रापद्विडालाक्ष इति प्रवीरः ।
प्रागल्भ्यदुर्वारमुरःप्रणुन्नद्वारं विरूपाक्षवलं विवेश ॥ ४४ ॥
अदृश्यतोचैः खरकेतुरग्रे समग्रसेनाङ्गसमूहशाली ।
बभौ दशग्रीवसभाङ्गणं तत्पूर्ण हयग्रीवचमूभरण ॥ ४५ ॥
विवेश हर्षादथ संप्रनृत्यन्नुन्मत्त इत्यत्रभुजामधीशः ।
स रावणेनादरगद्गदेन शिरोभिरूहे भगवानिवोग्रः ॥ ४६ ॥
मत्तः स्खलन् खेल इवोपतस्थे वीरस्त्वराशेषितवीरपाणः ।
स्वान्तःपुरस्वस्त्ययनप्रपञ्चात् कथं कथञ्चित्प्रतिपन्नयात्रः ॥ ४७ ॥
संख्यानदीष्णैरपि राजपुम्भिरनाप्तहस्त्यश्वपद । तिपारः ।
अम्भोधिरुद्वेल इवाविवेश प्रतर्दनो नाम निशाचरेन्द्रः ॥ ४८ ॥
संहादिनश्छेदतरङ्गभीमा ममुर्न तुर्यध्वनयो धरायाम् ।
विष्फूर्जथुः क्रोधविषप्रसूतो दिक्षु द्विजिह्वस्य च दुस्सहोऽभूत् ॥ ४९ ॥
आपृच्छ्य दुर्वारसहप्रयाणमनोरथानर्धपथेऽवरोधान् ।
उरोभिरार्द्रस्तनकुङ्कुमाङ्गैर्लङ्केश्वरं केऽपि ययुर्युवानः ॥ ५० ॥
किं वर्मणा नर्मभिदो न यावद्विभीषणस्य क्रियतेऽवसानम् ।
इत्येकवासा युवभिर्युवाऽन्यो ययौ परिच्छेदधिया न वाचा ॥ ५१ ॥