This page has not been fully proofread.

परिशिष्टम १ ]
 
अष्टत्रिंशः सर्गः ।
 
किं दुष्करं पुष्कलसंपदस्ते विशनीयः स विभीषणोऽस्ति ।
निकुम्भिलायां निशि मेघनादो येन द्विषा विद्विषि कथ्यते स्म ॥ २६ ॥
आनाय्यतां बुद्धिबलेन राजन् स भेद्यतां मानुषयोः कथंचित् ।
एतावतैव द्विषतामपैति वृन्दं किमिन्द्राभ्यधिकः स रामः ॥ २७ ॥
अन्तःपुरं सर्वमिदं तथैव तथैव लङ्कनपुरमस्ति पूर्णम् ।
तथैव ते रावणबाहुदण्डास्तथैव सर्वं न परं कुमारः ॥ २८ ॥
उवाच ते तीव्रशुचौ शुचार्तः पत्न्यौ प्रयत्नप्रतिपन्नधैर्यः ।
प्रसीदतं गच्छतमुत्थितोऽस्मि प्रमाणमाझा युवयोः सदा मे ॥ २९ ॥
देव्यौ किमित्थं प्रतिकूलदैवः करोतु वां रावण एष दासः ।
किं दैवमेवाद्य बलेन जित्वा निरत्ययः शत्रुबलं निहन्मि ॥ ३० ॥
प्रविश्यतां पश्यतमभ्युपेतमुत्ख। तरक्षःकुलकण्टकं माम् ।
तामद्य सीतामचिरादवीरां पर्यायदासीं युवयोः करोमि ॥ ३१ ॥
 
तयोस्तदत्यादरतस्तदानीं विशोकमन्तःकरणं बभूव ।
स्तोकं हि तोकं धनमङ्गनानां गतं सति स्वामिनि सुप्रसन्ने ॥ ३२ ॥
तमूचतुस्ते जय जीवनाथ दीर्घानुगे संविहिते तवावाम् ।
रणेऽपि किं नौ भवतः पुरस्तात् तथापि तावनिलयं गते स्वः ॥ ३३ ॥
कुर्वन्तु शान्ति कुलदेवतास्ते करोतु रक्षां निकषा च माता ।
 
त्वा॑ां चिन्तयन्त्वभिरजा॑सि धातुस्तव प्रसीदन्तु पुलस्त्यमिश्राः ॥ ३४ ॥
 
इति प्रसादाभिमुखे महिष्यावसह्यतादात्विकतद्वियोगः ।
स पार्श्वयोः संरुरुधे भुजाभ्यामुदासिताष्टादशबाहुदण्डः ॥ ३५ ॥
रुरोद ताभ्यां सह मुक्तकण्ठः पुनर्नवं मन्युरयं विवृण्वन् ।
अह्न: क्षणार्धस्य सहस्त्रकृत्वस्तस्योद्ययुः शोकसमुद्रवेगाः ॥ ३६ ॥
 
हा पुत्र हा पुत्र पुरन्दरारे मन्दोदरीनन्दन मेघनाद ।
कथं कुथच्छन्नमहारथस्थो हतोयस तेनाद्य नराधमेन ॥ ३७ ॥
उवाच साचीकृतकण्डपङ्किर्जाये स नक्तञ्चरचक्रवर्ती ।
किमेकदैव त्यजथः पतिं मां तमस्यगाधे विनिधाय देव्यौ ॥ ३८ ॥