रामचरितम् /373
This page has not been fully proofread.
परिशिष्टम् १ ]
अष्ट॒त्रंशः सर्गः ।
अथाष्टत्रिंशः सर्गः ॥
सौमित्रिशैलप्रभवावि( भि )रासीत् प्रवेशिता रावणकर्णमूलम् ।
असृग्भुजामश्रुतरङ्गिणीभिः सा मेघनादस्य वधप्रवृत्तिः ॥ १ ॥
नोचे न चक्रन्द मुमोच नाङ्गं तस्थौ बत स्तम्भ इव क्षणं सः ।
सर्वस्य तस्य व्यसनस्य मूलमुच्छेत्तुमुवतनयामियाय ॥ २ ॥
कृतं कुमारेण रणे न युक्तं मायामयी यत्पुरतो हताऽऽसीत् ।
सत्येन सीतानिधनेन शत्रोः करोमि संहारमहं तद ॥ ३ ॥
निश्चित्य निस्त्रिशतयां तदैव चकर्ष कोशादथ चन्द्रहासम् ।
कोपादितस्यास्य तदोद्धृतासेदूरं ययुर्मूलसदः प्रवीराः ॥ ४ ॥
रुरोध निर्गत्य कुलीनभावात्तमाकुलं व्याकुलकेशपाशा ।
मन्दोदरी तुल्यशुचा समेत्य मात्राऽतिकायस्य जगाद चेति ॥ ५ ॥
मा मा महाराज तपस्विमीं तामावां स्वजाये शकलीकुरुष्व ।
विराजते पुंसि तवैष वेगो वधूजने कः कृपणे कृपाणः ॥ ६ ॥
निवर्ततां नाथ न वर्तते ते वीरस्य नारीषु नृशंसभावः ।
यतस्व तस्यैव रिपोर्वर्धार्थमर्थान्तरं शक्तयवसादमाहुः ॥ ७ ॥
जातो गतः संयति मेघनादः किमेति भूयः क्रिययाऽनया ते ।
अहं न शास्मि स्वयमेव देव दैवस्य दोषे सदृशं विधेहि ॥ ८ ॥
जहि द्विषश्चक्रमिदं प्रशाधि चक्रेशयान् विद्धि कदापि कोऽपि ।
प्रकाश्य यत्किञ्चन दूषणं ते विभीषणस्यानुकृतिं करोति ॥ ९ ॥
देहि ममीताय हुताशतोये सान्द्रवणान् सह्यमुपेत्य पृच्छ ।
सञ्जात सर्वायुधयुग्यनाशानयाचितः संबिभृहि प्रवीरान् ॥ १० ॥
पितुः पदे रोपय वीरपुत्रान् दिश स्नुषाणामनुमर्तुमाज्ञाम् ।
शनैरपुत्रस्य विचिन्त्य यत्नात्तद्गन्धभाजः सुभटान् गृहाण ॥ ११ ॥
त्वत्कारणादन्तरितैकपुत्राः प्रतीच्छ मातृरिह सान्त्वनाभिः ।
गृहे गृहे लुम्प मलीमसं त्वं जातं शुचा शोकमिमं निगृह ॥ १२ ॥
३४१