This page has not been fully proofread.

३४०.
 
रावण सैन्यसन्नाहवर्णनो नाम
 
स वधे नरनैरृतयोस्तयोः समधिकोत्तरदिव्यशरव्ययः ।
अधरशस्त्रपरिग्रहणादरव्युपरमे परमेश्वरयोर्मृधः ॥ १०३ ॥
 
क्षयमियाय गवाक्षपताकिनी गजगवौ गवयानुपदं गतौ ।
 
जगृहिरे च दिशो न विषेहिरे शरभरं रभरम्भदरीमुखाः ॥ १०४ ॥
अपिशिताखिलमुक्तशरादिवक्षितिरुहातु महायुधसङ्कुले । (१)
स्मितविविक्तदृशस्त्रिदशास्तदा महति खे हतिखेदभयं जहुः ॥ १०५ ॥
उदपतत्परितः कपिराक्षसट्टमनगेष्वसृगाशनिदुर्दिनम् । (?)
हतविधूतविहस्तहरिश्चिरं रविरथो विरथोऽभवदम्बरे ॥ १०६ ॥
 
वरुणवह्निमरुद्यमरूपिणं कपिषु रोपमरोपयदिन्द्रजित् ।
व्यथितवक्षसि रक्षसि लक्ष्मणस्त्रिगतिकं गतिकम्पजितं शरम् ॥ १०७ ॥
वलितमुष्टिरनोकहसंचयात् कपिरतीव समीपमियाय सः ।
अगमयत् क्षयमुद्धृतवानसिं द्रुतमसौ तमसौ रजनीचरः ॥ १०८ ॥
तदथ युद्धमविन्दत चन्दनः शरभिया शरभो न विचक्रमे ।
प्रसरति स्म निशाचरयूनि कः श्रुतरवे तरवे तरुगोचरः ॥ १०९ ॥
भुवि निषीदति वानरमण्डले सुरगणे दिवि साक्षिणि लक्ष्मणः ।
विशिखमिन्द्रजिति स्वभुवोऽसृजन्मरणदं रणदम्भनिराकृतः ॥ ११० ॥
याद ममार्यमुपैतु न कश्मलं जनयिता यदि तेऽपि मयस्ततः (?) ।
तव लुनातु शिरोऽस्त्रमिदं विधेरशबलं शवलम्पटचेतसः ॥ १११ ॥
 
[ रामचरितस्य
 
स एवं ब्रह्मास्त्राद्विमलविकरालांशुपरिधेः सुराणां प्रत्यक्षं सह दशरथेनोपरिसदाम् ।
सुमित्रायाः सुनोः स्मरणसमुपेताहति महानहोरात्रैरन्तं त्रिदशपतिशलोस्तटिदगात् (?) ॥ ११२ ॥
स कृत्वा कर्तव्यं परममिति कृत्स्नस्य जगतो गतो रामस्यान्तर्गुरुतरमुदः पादयुगलम् ।
तदानीं रूढारिप्रतिविशिखमार्गेण वपुषा सुषेणस्य स्पर्शानव इव बभौ धर्मविजयी ॥ ११३॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सप्तत्रिंशः सर्गः ।