रामचरितम् /371
This page has not been fully proofread.
परिशिष्टम् १. ]
सप्तत्रिंशः सर्गः ।
युगशतान्तरिताहव कर्मवित्तमरुणत्तरसाऽधिकविक्रमः ।
प्रसभमृक्षपतिः क्षणदाचरं हरिवरैरवरैरुदितोदितम् ॥ ९० ॥
गतिरहो वपुरेतदही बत व्रज कपीन् कबलीकुरु नाकुषु ।
क इव वैकृतयुक्तिभवानिति स्थविरतो विरतो युधि सोऽभवत् (१) ॥ ९९ ॥
समुपयातु युवा बलवान् स वो मम समत्वसहः समरेषु यः ।
विरम नश्य विषीद न सर्वथा जरति रे रतिरेति भवादृशि ॥ ९२ ॥
बद पितृव्य गदायुधकौशलं यदि चिरेण न विस्मृतवानसि ।
व्रजति शोषमपक्रमरोषितात्तनयतोऽनयतोयनिधिर्भवान् ॥ ९३ ॥
कुलविनाशपटो रिपुनन्दन व्रज विभीषण नैष विलोक्यसे ।
मितनिमित्तगतागतगर्हितादपि शुनः पिशुन: परिभूयते ॥ ९४ ॥
त्वमपि पूयसमीरणज व्रज स्वभुजरोपितलक्ष्मणमस्तकः ।
प्रथमजो धृतिमेतु विडम्बयन्नवरजं वरजम्बुकतां गतः ॥ ९५ ॥
इति निगद्य निरन्तरपातिनामुपरि तेन करद्वयशालिना ।
शरततिर्वितता विपिनौकसां निधनदा धनदानुजसूनुना ॥ ९६ ॥
विषमभूरिभयङ्करकोटिभिः स्फुटधनुर्मुखमण्डलनिर्गतैः ।
प्लवगचक्रमभीक्ष्णमशेषयत्तदशनैर्देशनैरिव सायकैः ॥ ९७ ॥
हरिजिताऽऽशु तमोऽस्त्रविसर्जनात् क्षणविलम्बितलक्ष्मणदीप्तयः ।
पिहितजन्यदिशः प्लवगेश्वरा ददृशिरे दृशि रेणुहता इव ॥ ९८ ॥
उदयशैलमहीयास मारुतौ नमितचण्डशरासनमण्डलः ।
शरमहोभिरनन्तविकर्तनस्तदधुनादधुनाऽनुपदं तमः ॥ ९९ ॥
कृतवलीमुखपद्मनिमीलने तमसि तत्र विमूर्छति रावणेः ।
स्मितहिमप्रभया परमुद्धभावविधुरो विधुरोमिति लक्ष्मणः ॥ १०० ॥
हर इव प्रधनाभिमुखे कृते दिविषदां धृतसज्यशरासनः ।
अहरदन्तिकभाजि वनौकसां भयमरौ यमरौद्रमहिन्नि सः ॥ १०१ ॥
इतरवानरबद्ध(वन)रवानरास्तदिषुनामजलव्यसनं महत् (१) ।
सपदि तेऽपि तपान्तसमुत्थितादिनवतो नवतोयधरात् पपुः ॥ १०२ ॥
३३९