This page has not been fully proofread.

३३८
 
[ रामचरितस्य
 
इन्द्रजिन्निधनवर्णनो नाम
 
रिपुरपि क्रतुयापितमत्सरः शृणु सुजात यदाह जनार्दनः ॥
निभृतमास्व निहन्त्यहितानयं तव यमो वयमोमिति च स्तुमः ॥ ७७ ॥
सततसन्ततमर्चति रावणस्त्वमपि तर्पयसीत्थमतः स ते (?) ।
 
भवसि वत्स शिवस्य गुहादपि प्रियतरो यतरोषरयो रुचः (१) ॥ ७८ ॥
 
विशसिताः पशवः शतसंख्यया धनभरैर्गमिता मुदमृत्विजः ।
निमिषमेधि यथाविधि मा विधेर्बलवतो लवतोऽपि कृथाः क्षतिम् ॥ ७९ ॥
इदमनीकमनेकपरिच्छदं विभव एष धनाधिपदुर्लभः ।
 
तव जयाय समृद्धिरियं चरोरुदयते दयते विधिदेवता ॥ ८० ॥
इति निशम्य निशाचरसंपदं कपिवरप्रकराः पुरतोमुखाः ।
विलुलितं व्यधुरा हितमी हितं हविरतो विरतो विधिरस्त्विति ॥ ८१ ॥
 
नुनुदुरुन्नदतः सदयं पशून् विजहसुर्विघृणं शतमृत्विजाम् ।
परिययुर्यजमानमनु क्षमाधृतरुषं तरुषण्डतलस्थितम् ॥ ८२ ॥
किमसि भो निभृतः कपियूथपैरयमसृपिशिताहुतिलालितः ।
अभिमुखैरपि वेद विलुप्यते हुतवहस्तव हस्तविदूषितः ॥ ८३ ॥
स्वयमशान शवामिषमाहितं क इव मूर्ख तवैष मखग्रहः ।
हसति लक्ष्मण एष विलक्ष ते समरतोऽमरतोषमुपाहर ॥ ८४ ॥
उपरतोऽसि न जीवसि रावणे तव यशो गतमिन्द्रजयार्जितम् ।
न यदिदं झटिति स्फुटमानया रिपुरुषा पुरुषाधम दीप्यसे ॥ ८५ ॥
निकृतिभिर्निकटेषु हरीश्वरास्त्वरितमाहरतास्य हृदि क्रुधः ।
इह तथा सति विक्रमतामरौ सुरपतेरपतेजसि लक्ष्मणः ॥ ८६ ॥
इति वचोऽनुपदं कपिविद्रवे महति मुक्तसमाधिपरिग्रहः ।
अभजत क्रुघमैक्षत नाध्वरश्रियमसौ यमसौहृदमोहितः ॥ ८७ ॥
मुदमगुस्तमुदीक्ष्य वनौकसः प्रतिगताद्भुतनूतनसंपदम् ।
स्मृतसमेत समस्तचिरन्तनप्रधनसाधनसाध्यजयश्रियम् ॥ ८८ ॥
पृथगुपेतगृहीतचिरिद्रुमः कपिगणस्तमुपेत्य समाहत ।
 
स हनुमन्तमभाषत भारतीमिति मितां तिमितां मदवीचिभिः ॥ ८९ ॥