This page has been fully proofread once and needs a second look.

अरोपशमि[^१]तोदग्रजामदग्न्याग्निंत[^२]जसः ।
प्रतीच्छति शरासारं तवार्य रुषितस्य कः ॥ ४५ ॥
 
स्वकृत्यभारसन्न्यासी यावदिथं विषीदसि ।
ताषदन्तकदंष्ट्राणामरातिरतिथिर्न ते ॥ ४६ ॥
 
आततायी स विज्ञातो जीवत्यार्येति च श्रुतम् ।
प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥ ४७ ॥
 
न ज्ञायते परं व्यक्तमरेर्मायाविनः पदम् ।
तन्मार्गणञ्च सुहृदा सुग्रीवेण प्रतिश्रुतम् ॥ ४८ ॥
 
दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः ।
क्षणान्नूनमसावार्यपादमूले पतिष्यति ॥ ४९ ॥
 
शालिपिङ्गमहर्हापृष्ठस्पर्धयेव भविष्यति ।
रंहस्विहरिसङ्घातसंपातकपिलं नभः ॥ ५० ॥
 
तेषामारोष[^४]रुचिरैरचिरान्मुखमण्डलैः ।
द्र[^५]क्ष्यते तरुणादित्यशतच्छन्न[^६]मिवाम्बरम् ॥ ५१ ॥
 
अहो दीप्तिरहो कान्ति[^७]रहो शीलमहो बलम् ।
अहो शक्तिरहो भक्तिरहो प्रज्ञा हनूमतः ॥ ५२ ॥
 
प्रगल्भेनाप्रमत्तेन तेनाभ्यन्तरमन्त्रिणा ।
नूनमस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥ ५३ ॥
 
स च प्रत्युपकाराय त्वरयत्ये[^८]नमादृतः ।
ध्रुवं बुद्धिव[^९]योवृद्धः सचिवो जाम्बवानपि ॥ ५४ ॥
 
तदेवं हेतुना केन वानरेन्द्रो विलम्बते ।
नासौ कृतघ्नस्य भवेद्गुणवद्भृत्यसङ्ग्रहः ॥ ५५ ॥
 
आगन्तव्यं ध्रुवं तेन मार्गिताऽऽर्या प्रवृत्तिना ।
प्रपन्नपरकृत्यानामत्युष्णो[^१०] हि समुद्यमः ॥ ५६ ॥
 
[१.] A. षाधरि ।
[२.] A. स्त्र ।
[३.] B. न्तरेनूनमसावार्य ।
[४.] B. मरो ।
[५.] A. भ ।
[६.] C. च्छत्र ।
[७.] A. कीर्ति ।
[८.] A. वमारुतिः ।
[९.] B. एवंबुद्धिर्व ।
[१०.] B. मुत्फुल्लो ।