रामचरितम् /369
This page has not been fully proofread.
परिशिष्टम् १ ]
सप्तत्रिंशः सर्गः ।
उदगमन् कपयः पितृकाननं तदपि यत्र स पुण्यजनः शनैः ।
मखमथर्वमहोष्मसमर्थकं प्रतनुतेऽतनुतेजास रावणे ॥ ६४ ॥
कपिभिराददिरेऽथ निकुम्भिलाककुदभूतमहावटमूलगाः ।
क्षतजमज्जवसाघृतपिच्छिलाः सरणयो रणयोग्यबहिर्भुवः ॥ ६५ ॥
जुहुधि जोषमुदेति हुताशनात्तव रथोऽयमदूरमनोरथः ।
रथकुटुम्बिन एष शिरोमणे: करचयो रचयोरि (मि) तिमा(सा)दरम् ॥ ६६ ॥
अयमसिः सुतया ( गदया ) सह सिध्यति स्फुरति कुन्तलताग्रमिदं पुरः ।
इदमुदेति निषीय जुहूमुखाद् घृतवसे तव सेषुधिकं धनुः ॥ ६७ ॥
इदमितश्च यथायथमाहितस्फुरितवेगविडम्बरमीक्ष्यते ।
कुलमिव स्फुटमम्भसि यादसा हुतवहे तव हेतिकदम्बकम् ॥ ६८ ॥
जय कपीनखिलान् जय राघवौ जय कुलद्विषमाशु विभीषणम् ।
किमपरं मदनारिमधुद्विषौ सविधिको विधिकौशलतो जय ॥ ६९ ॥
जय दशाननपुत्र जगत्रयं हयरवः श्रुतिमेति महानयम् ।
लसति हास्तिकमेतदतिस्फुटं ध्वजपटं जपटङ्कृतिनिर्गतम् ॥ ७० ॥
इत इतः खलु शौर्यरसादमी समुदयन्त्यसिवर्मभृतो भटाः
रणति रावणनन्दन दुन्दुभिर्विजयदो जयदोहदिमस्तव ॥ ७९ ॥
परिसमाप्त इव क्रतुरेष भोः कतिचिदाहुतयः परमासते ।
कुरु पितुः करणीयमिदं क्रुधो जय जवं यज बन्धुरिताननः ॥ ७२ ॥
इयमुपप्लवकारकवानरव्रजमयी भवतो बत कैव भूः ।
जयसि कर्मबलोपनतामरत्रय दिवं यदि वञ्चयसि क्षणात् ॥ ७३ ॥
इदमुदेति समिद्भरबन्धुरं कवचरत्नमितश्च शनैः शनैः ।
भगवता विधिनैव समन्ततो घृतवता तव तात विनिर्मितम् ॥ ७४ ॥
ग्रहजुहूसमिदाज्यचरुस्रुचामुपरि पश्य चमूं चतुरङ्गिणीम् ।
परिगृहाण कृती सकलामिमामव कुलं वकुलं तव राघवः ॥ ७५ ॥
अयमहं भवतः कुलदेवता कमलभूवंद वत्स किमिच्छसि ।
जगदिदं वितरामि तवाचिरादकलहं कलहंसमपि स्वकम् ॥ ७६ ॥
४३