This page has not been fully proofread.

इन्द्राजनिधनवर्णनो नाम
 
जुहुधि देहमिहैव महाहवे मयि समित्तुलया सुहुते पुनः ।
 
भवति शुद्धिरवन्ध्यपथार्पिता तब दशा वद शाम्यति केन सा ( १ ) ॥ ५१ ॥
उपनताऽऽर्य तव स्वपदत्यजः सुमहतीयमनर्थपरम्परा ।
किमधुनाऽधमवत्परितप्यसे ननु भवान्नु भवापदि विज्वरः ॥ ५२ ॥
 
[ रामचरितस्य
 
इदमुशन्ति नराधमलक्षणं विपदि यद्विधुरत्वपरिग्रहः ।
स्खलति चित्तगतिर्विषमे लघोः सुमहतामहता हि मनोरथाः ॥ ५३ ॥
 
व्रज रणाजिरमास्स्व मुधा रुदन्नयमहं विनिहन्मि तव द्विषः ।
बत स एष न तेऽवरजोऽधुना निभरतं भरतं हतवान्न यः ॥ ५४ ॥
 
बलमपेतमिदं विपिनौकसां वद विभीषणमेत्वभयां दिशम् ।
युधि न यावदिह क्रियतेऽरिणा स (श) कलश: कलश: सुनयाम्भसाम् ॥ ५५ ॥
 
अथ जगाद निजं बलमाकुलं द्रुतमुपेत्य कुतोऽपि विभीषणः ।
कपटमेतदिति क्व विदेहभूर्निहत तं हततन्त्रमसृग्भुजम् ॥ ५६ ॥
 
इदमसत्यमसत्यमरातिना कपिरयं पिशुनेन निवर्तितः ।
कृतकया जनकात्मजया रणे निहतया हत यातुचमूशतम् ॥ ५७ ॥
ऋजुरयं पवमानसुतः कपिः स्फुटमुपैति समस्तमरेरपि ।
भगवती हतरावणसूनुना शकलिता कलिता यदनेन सा ॥ ५८ ॥
शृणुत रामकपीश्वरलक्ष्मणाः प्रहरतीन्द्रजिदित्यमरातिषु ।
इदमनित्थमपोहितु मुद्गता युवतयो बत योधतमा अपि ॥ ५९ ॥
 
इति विधाय गतः स निकुम्भिलामभिचरन्निशि तिष्ठति तत्र सः ।
कुरुत विघ्नमुपेत्य स हन्यतामितरथा तरथास्य न वाहिनीम् ॥ ६० ॥
निकटसिद्धिरसौ विधिरस्य भोः प्रतिहतः क्रियतां कपिभिंद्रुतम् ।
पततु रावणिना सह रावणः प्रभवतां भवतां कथितं मया ॥ ६१ ॥
अथ विभीषणमारुतिजाम्बवत्प्रमुखविश्रुतवीरचमूवृतः ।
अभिययावनुजस्त्रिजगत्पतेस्तमहितं महितं मरुतामपि ॥ ६२ ॥
 
श्रुतिमुपेयुषि लक्ष्मणसंश्रवे तदभिचारविधानपरोऽभवत् ।
मसभमाहवमूर्ध्नि महेन्द्रजिन्न सहते सह तेन शरव्ययम् ॥ ६३ ॥