This page has not been fully proofread.

परिशिष्टम् १ ]
 
सप्तत्रिंशः सर्गः ।
 
अथ भयाकुलपक्ष्मललोचना हनुमतः पथि लोचनयोरभूत् ।
उपगता युवतिर्विरहातुरा धुरमरेरमरेन्द्रजितः स्फुटम् ॥ ३८ ॥
तदुपमानदरिद्रमिदं मुखं तदिदमाश्रवणं द्वितयं दृशोः ।
चरणपाणि तदेतदिदं वपुस्तदिव सा दिवसान्तसरोजिनी ॥ ३९ ॥
इति वितर्कनिपातितसंभ्रमस्तिमितनेत्रयुगेन हनूमता ।
 
निगमिता गृहिणी जगतः प्रभोः प्रतिभयातिभयाकुलभाषिणी ॥ ४० ॥
 
किमपरं रभसः स निशाचर: शितमसिं परिगृह्य लुलाव ताम् ।
चिरमघूर्णत वीक्ष्य तदाऽऽनिलिः करुणयाऽरुणया रहितस्त्विषा ॥ ४१ ॥
अवसराधिगमेऽपससार स प्रतिययौ कपिरष्यतिकातरः ।
किमिदमित्यथ पृच्छति राघवे तदवदद्दवदग्ध इव द्रुमः ॥ ४२ ॥
 
अहह किं वदसीति विशुश्रुवे रघुपतेरुदभून्न वचस्ततः ।
अवरजः कथमप्युपसान्त्वनैरतमसं तमसन्नमिवाकरोत् ॥ ॥ ४३ ॥
 
इति जगाद च तं विशदं मनाक् किमियताऽऽर्य गतोऽसि विजिह्मताम् ।
असदृशग्रहकल्मषपावके बहुतराहुतराज्य तवाहव: (?) ॥ ४४ ॥
बत यदोज्झितवानसि गामिमां तव तदैव गताऽऽर्य महिष्यपि ।
सुविशदाहवलभ्यमनामयं भुजपदं जप दम्भविनाकृतः ॥ ४५ ॥
अपितु राज्यसुखेषु घृणावतस्तव तपोवनमेव हृदि स्थितम् ।
शुभमभूद्यदभाग्यवती गता न भवतो भवतोऽद्य भयं क्वचित् ॥ ४६ ॥
 
नरपतिर्भरतो जननीबलादवनिमद्य भुनक्ति ससागरराम् ।
त्वमहमित्युभयं विधिना हतं निधनभाग्धनभाग्यविवर्जितम् ॥ ४७ ॥
 
जयति नः कुलवेश्मनि मन्थरा वितनुतेऽद्य न किञ्चन कैकयी ।
परगृहेष्वव ते परमावयोर्वनगयोर्नगयोरिव शुष्कयोः ॥ ४८ ॥
 
धनमिति स्फुटमुच्छ्रसितं नृणामपधनोऽपगता सुरुदाहृतः ।
मलिनिमापि जडैरभिनन्द्यते धनवतो नवतोयभृतो यथा ॥ ४९ ॥
 
भज महाव्रतमेहि महावनं प्रविश वा दहनं सहलक्ष्मणः ।
स्फुरास न त्वमतीर्णपराभवस्तव तमो बत मोक्षपथोऽप्यसौ ॥ ५० ॥