रामचरितम् /366
This page has not been fully proofread.
३३४
इन्द्रजिनिधनवर्णनो नाम
तमजयत् प्लवगं त्रिदशेन्द्रजित्तदुपरुद्धथो ददृशे न सः ।
पुनरजृम्भत रावणिरानिलिः पुनरसौ नरसौष्ठवहद्धभौ ॥ २५ ॥
अभिजघान घनैर्घटमुष्टिभिर्निकटमेत्य निशाचरमानिलिः ।
प्रतिजघान निवृत्य स मुद्गरैरुरसि तं रसितं बहु मोचयन् ॥ २६ ॥
रामचरितस्य ]
सच शचीरमणैकरिपुः कपेस्तदसहन्मुहुराहवचापलम् ।
अविचलन् बलवानपि दोर्बलान्निजगृहे जगृहे किल तेन सः ॥ २७ ॥
कपिरुवाच तमुद्धतवालधिर्विजितवानसि यत्समयैव मे (माम् ) ।
प्रहर तद्वदुपैषि न संप्रति प्रकुपितः कुपितस्त्वयि मारुतिः ॥ २८ ॥
यदपराद्धमृषिष्वसकृत्त्वया पितुरधीतमसच्चरितं च यत् ।
गुणलवो न यदार्यविभीषणादधिगतो धिगतो भवदुद्भवम् ॥ २९ ॥
तमितिवादिनमिन्द्रजयी हसन् प्रतिजगाद वलीमुखमग्रतः ।
गुरुरिव लवगाधम किं वदस्ययमितो यमितोऽद्य भविष्यसि ॥ ३० ॥
स्मरसि यत्तदनेन महौजसा नियमितोऽधिगलं निशि नीयसे ।
तव करोतु किमद्य स रावणिर्वि (र्व) द हरे दह रे नगरं पुनः ॥ ३१ ॥
प्रभुरुषैतु स ते रविनन्दनः सच पुमानुपसर्पत सानुजः ।
त्वमपि तिष्ठ तथा सति मे सहग्भुजवतो जवतोऽधिगतो मृधः ॥ ३२ ॥
दशरथात्मजयोस्तपनात्मजे त्वयि च वज्रतनौ पवनात्मजे ।
जयनिकामसमाप्तिरवाच्यतामयति मे यतिमेति नराधमे (?) ॥ ३३ ॥
महर तत्प्रभुयुग्मपुरस्कृतः क्षिपास कालमकारणमेव किम् ।
अथ परिश्रमवानास गम्यतामयमहं यमहन्तृसमः स्थितः ॥ ३४ ॥
जनयिता पवनस्तव कोन्वसौ चरति नः पुरि पौरमनोरथैः ।
मम पिताऽधिगतैरभवद्वरैर्गिरिशतोऽरिशतोष्मनिषूदनः ॥ ३५ ॥
इति मिथः स्फुटवाग्व्ययिनोस्तयोः सुभटयोर्झटिति ज्वलितं मनः ।
प्रववृते समरः समवीर्ययोः सुरसभे रसभेदमपश्यति ॥ ३६ ॥
स गत ( तदनु) चित्तमकारि वलीमुखं दशमुखप्रभवेण रणाङ्गणात् ।
कुसृतिभिर्विनिवर्तयितुं श्रमच्युतमुदा तमुदात्तपराक्रमम् ॥ ३७ ॥