This page has not been fully proofread.

परिशिष्टम् १ ]
 
सप्तत्रिंशः सर्गः ।
 
जयकलाः सकलास्त्वमधीतवान् गुरुरसि च्छलयुद्धंविपश्चिताम् ।
अवितथं त्वमभीप्सितमीशिषे गमयितुं मयि तुङ्गमनोरथः ॥ १२ ॥
न मनसा विमृशामि नरद्वयं न कलयामि कपीनितरानपि ।
त्वयि तनूज कठोरपराक्रमे हनुमतोऽनुमतोऽद्य मम क्षयः ॥ १३ ॥
 
नगरदाहपराभवपांसुना मलिनमात्मकुलं धवलीकुरु ।
त्वयि समाप्तिमुपैतु सं वातभूवकरोऽवकरोषमतां गतः ॥ १४ ॥
स्मररास तात सुरेन्द्रजयं मम प्लवगजन्तुषु कैव समित्कथा ।
सदृशमादिश देहि जयाशिषं जय मया यमयामि नरौ पुनः ॥ १५ ॥
 
स वच इत्यभिधाय समुल्लसद्विकटकाञ्चनकेसरिकेतुना ।
रथवरेण रणाडूमधावत ध्वनिभृता निभतारिमहाभटः ॥ १६ ॥
अनुययुस्तमुदीरितभीषणध्वजवरूथवितानकुथा रथाः ।
प्लवगचक्रचमत्कृतिकारिणः प्रयुतशोऽयुतशोभिसमृद्धयः ॥ १७ ॥
प्रहरणाभरणप्रभया पुनः कपिकुलं स चकार चमत्कृतम् ।
नरयुगं परमैक्षत सोऽग्रतः सुरुचिरं रुचिरञ्जितदिङ्मुखः ॥ १८ ॥
प्रकिरतस्तरुभिः प्रथमं कपीनुपजहास दशानननन्दनः ।
न पिदधे विशिखैरचलायुधान्न समरे समरेचितविक्रमान् ॥ १९ ॥
 
ययुरसृग्भुजि पर्वतवृष्टयः प्रतिहतिं प्लवगध्वजिनीरिताः ।
हनुमतः प्रविवेश न साऽङ्गकेष्वपि शिता पिशिताशशरावली ॥ २० ॥
 
हरिपृथुक्रथनीलनलाङ्गदा द्विविदकेसरितारदरीमुखाः ।
युयुधिरे सह दंष्ट्रिभिरस्रपैः सुदशना दश नायकयूथपाः ॥ २१ ॥
हरिरमार्गदनर्गलविक्रमान् शतबलिर्विममर्द बलीयसः ।
अभिजधान दशानननन्दनाद नितरानितरान्न (न्स) समीरभूः ॥ २२ ॥
विटपिभिः स पिपेष धुरन्धरान् ध्वजमपातयदस्य महीधरैः ।
अकृत सृतमभीक्ष्णमुपप्लवैर्विधुरितं धुरि तंतुशतैर्युतम् ॥ २३ ॥
अभजतान्यमथाहत्रसाधनं पितृनिदेशनिधापितमिन्द्रजित् ।
अपि मुहूर्तमभूभ स विघ्नवानुपरतः परतश्च स मारुतिः ॥ २४ ॥