This page has not been fully proofread.

इन्द्रजिनिधनवर्णनो नाम
 
परिशिष्टम्ं । १ ।
अथ सप्तत्रिंशः सर्गः ॥
 
[ रामचरितस्य
 
अथ कुमारकुलक्षयकातरं पितरमेत्य सरोषमिवाब्रवीत् ।
धृतसुदुर्विषहश्रवणज्वरं परबले रवलेपिनि शक्रजित् ॥ १ ॥
जितवतस्तव तात जगत्पुरा क इव हस्तमदत्त सनाभिषु ।
ननु जुषः स्वयमेव जयत्वरां गतवती तव तीव्ररुषः क्व सा ॥ २ ॥
किमनुशोचसि निष्फलमर्भकान् क इव कर्कशवर्त्मसु तेऽरिषु ।
तव समृद्धिरुपैतु मयि स्फुरत्करणके रणकेलिविलोकनम् ॥ ३ ॥
किमिव सीदसि कुप्यसि मे न चेत् किमिव तात न योजितवानास ।
अनवधानविवर्धितविद्रवः स्वपृथुकं पृथुकम्पकृतं द्विषाम् ॥ ४ ॥
क्व स रथः खरकोटिधुरन्धरः क्षणमितः समुपेत्य विलोकय ।
कलितजैत्रपरिच्छदसंहतेर्मम रणं मरणं च वनौकसाम् ॥ ५ ॥
तव लसन्तु गृहेषु महोत्सवाः प्रविश तात नियुज्य रणाय माम् ।
जयास यासि न भाजनतां शुचः पृतनया तनयार्पितया पुनः ॥ ६ ॥
किरतु संप्रति संसरणस्थलीः विशिखजालमनन्तरमेव ते (मे)।
किमपरं निपतन्नवलोक्यतां रिपुरसौ पुरसौधशिखाततेः ॥ ७॥
जय पितः कुपितः कलशोद्भवं भज निजासनमेतदचञ्चलम् ।
उपहरामि तवोत्कलिकाकुलं कपिबलं पिब लङ्घितसागरम् ॥ ८ ॥
इति वदन्तमभाषत रावणस्तनयमिन्द्रजितं जितवेदनः ।
जयति वत्स भवान्न वहन्त्यमी मम करा मकराक्षपरिक्षये ॥ ९ ॥
अपिच वत्स न विस्मृतिमीयते समरमूर्ध्नि स कुम्भनिकुम्भयोः ।
प्लवगवीरकदम्बकनिग्रहः श्रमसहे मसहेतुरसुव्यय: (?) ॥ १० ॥
महर दूरत एव जय च्छलाद्विचर वत्स परेष्ववधानवान् ।
श्रवणयोः कथयामि निशम्यतां न सुतरा सुत रामशरावली ॥ ११ ॥
 
१ बहुमातृका संवादेन शैलीतारतम्येन चाभिनन्दस्य कृतिः षट्त्रिंशत्सर्गान्ते विच्छिन्नति संभाव्यते । इश्व
 
परिशिष्टमन्येन कविनाऽभिनन्दनाम्ना प्रक्षिप्य पूरितमित्यपि प्रतीयते ।