This page has not been fully proofread.

षत्रिंशः सर्गः ।
 
जैयति जगन्ति भ्रमन्ती कीर्त्या सह हारवर्षनृपशशिनः ।
शिरसि कृता कृतविद्यैः कृतिरियमार्याविलासस्य ॥
ऋक्षाणां भूरिधान्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं
स्फार नेत्रामलेन प्रसभनियमितोच्चा पमीनध्वजेन ।
रामायतं पुरारे: कुमुदशुचि लसनीलसुग्रीवम
प्लावड्ङ्गं सैन्यमन्यद्दशवदनशिरश्च्छेदहेतुः श्रियेऽस्तु ॥
 
पौलान्वयाम्बुजवनैकविरोचनाय
तस्मै नमोऽस्तु युवराजनरेश्वराय ।
कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिः
येनामरत्वपदवीं गमितोऽभिनन्दः ॥
किं शीधुभिर्भवतु फाणितशर्कराद्यैः
 
किं वा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधया च किमन्यदेव
 
यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
तथा गृही न पौत्राणां नवोढानाञ्च योषिताम् ।
युवराजः कवीन्द्राणां प्रणयान्मोदते यथा ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये कुम्भनिकुम्भवधवर्णनो नाम षत्रिंशः सर्गः ।
 
१. C D omit this sloka, २ B only reads this sloka. ३C only reads these
three slokas,